________________
चिन्तयामास - किमिदमपूर्वं वस्तु मममित्रेणप्रेषितम् ? । अद्य यावन्मया न कुत्रापि दृष्टं, किमिदमाभरणमिति । ध्यात्वा यावदङ्गे दधाति तावच्छोभा नायाति । कण्ठे मूर्ध्नि हृदये न्यस्तं कुमारेण तथा शोभा न भवति देहस्य । ततोऽग्रे सिंहासनारूढं सालङ्कारं श्रीयुगादिजिनबिम्बं कृत्वा सन्मुखं स्थित्वाऽऽर्द्रकुमारो दध्यौ - किमिदं रूपमीदृशं मया पूर्वं दृष्टमित्यादि भूयो भूयो भावयन् आर्द्रकुमारो मूर्च्छामवाप्य जातिस्मृतिं प्राप । ततो | लब्धजातिस्मरणः पूर्वजन्मालोक्य पूर्वभवकथामिति ध्यातवान् । इतस्तृतीये पूर्वभवे वसन्तपुरे मगधदेशभूषाकरे सामयिकाभिधः कौटुम्ब्यहमभूवम् । भार्या बन्धुमती बभूव मम । अन्यदा श्रीसुस्थितसूरि| पार्श्वे भार्यासहितो धर्मं श्रोतुमगमं, तदा गुरुभिर्धर्मोपदेशोददे । तथाहि त्रैकाल्यं जिनपूजनं प्रतिदिनं सङ्घस्य सन्माननं, स्वाध्यायो गुरुसेवनं च विधिना दानं तथाऽऽवश्यकम् । शक्त्या च व्रतपालनं वरतपो ज्ञानस्य पाठस्तथा, सैष श्रावकपुङ्गवस्य कथितो धर्मो जिनेन्द्रागमे ॥ १ ॥ इत्यादि, भार्यायुतोऽहं श्राद्धद्वादशत्रतमग्रहीषम् । क्रमात् कदाचिन्मया प्रियासहितेन द्वादशवती पालिता । एकदा मौढ्यात् सा खण्डिता प्रमा| दादेव । ततः क्रमादङ्गीकृतानशना मृता बन्धुमती । ततो मया ध्यातं - किं जीवितेन तया पल्या विना मम ? ।
Jain Educationtional
For Private & Personal Use Only
w.jainelibrary.org