SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तिः ॥ ॥ २०५ ॥ Jain Educatio | श्रेणिकस्तत् प्राभृतं प्राप्य हृष्टः सन् तं मन्त्रिणं सन्मानयामास । श्रेणिकमत्री आर्द्रकुमारप्रेषितं प्राभृतमभयकुमाराय वितीर्णवान् । तत्तादृशं प्राभृतं प्राप्य हृष्टोऽभयकुमारो दध्याविति कर्मजया बुद्ध्या - नूनमेष आई| कुमारोऽनार्यदेशेषु उत्पन्नोऽस्ति विराधितव्रतत्वेन, आसन्नभव्यो मुक्तिगामी । ततः केनापि प्रपञ्चरचनादिना तथा करोमि यथाऽयं परमार्हतो भवति । तस्यार्द्रकुमारस्य तीर्थङ्करबिम्बदर्शनात् उत्पत्स्यते जातिस्मरणम्, | तेनार्हत्प्रतिमां तत्र प्रेषयिष्यामि । ततः आदिनाथस्य प्रतिमां पेटामध्यस्थां कृत्वा तन्मध्ये धूपदहनघटिकादीनि वस्तूनि जिनपूजायोग्यानि मुक्त्वा च तत्र तालकं दत्त्वाऽभयकुमार एकश्लोकं प्रतिवाचकं मुमोचेति – चित्तं तुम्ह विलग्गं, तुह गुणसवणेण सवणपरितोसो । जीहा नामग्गहणे, एक्का दिट्ठी तडफडइ ॥ १ ॥ मञ्जूषा रहसि आर्द्रकुमारायार्पणीया त्वया । ततः श्रेणिकेनापि आर्द्रकभूपतये प्राभृतं वर्यमर्पितम् । श्रेणिकभूपतिवितीर्णं प्राभृतमभयकुमारार्पितमञ्जूषायुतं समादाय मन्त्रीश्वरश्वचाल । कियताऽनेहसा स्वपुरं समेत्य प्रथमं मत्री भूपस्य प्राभृतं भूपाय ददौ । भूपोऽपि हृष्टस्तत् प्राभृतं जग्राह । ततो मन्त्री कुमारपार्श्वे गत्वा रहसि तां पेटां ददौ तस्मै । ततस्तां पेटां कुञ्चिकयोद्घाट्य रहसि यावदार्द्र कुमारो विलोकयामास तावन्मध्यस्थं बिम्बमपूर्वमालोक्य national For Private & Personal Use Only श्रीआई कुमार चरित्रम् । ॥ २०५ ॥ w.jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy