SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ क्रमागता प्रीतिरस्ति । तेनाधुनाऽपि प्रीतिर्विद्यते । तातवचः श्रुत्वा कुमारः स्वावासे तं मत्रिणमाकार्य रहोवृत्त्या जगौ-तस्य राज्ञःश्रेणिकस्य सुतः कोऽस्ति ? । मत्रिनायको जगौ-धियां पात्रं पञ्चशतमत्र्यधिपोऽभयकुमारो | मत्रीश्वरोऽस्ति, दक्षदाक्षिण्यनैपुण्यकलाकुशलः । कुमारोऽवग्-तेन कुमारेण सममहं मैत्री चिकीर्षुरस्मि । यदि त्वं पश्चाद्गच्छेस्तदा मामापृच्छयैव ब्रजेः।अहं किमपि प्राभृतं तस्मै कुमाराय प्रेषयामि।ओमित्युक्त्वा मत्रीश्वरो स्वस्थानके | ययौ। श्रेणिकमत्रिणः आईकराजा सदन्नपानदानादिना भक्तिं चकार । अन्येधुर्मणिमुक्ताफलादिसारवस्तूनि श्रेणिकभूपयोग्यानि स्वमत्रिणोऽर्पयामास राजा, प्राह च-गच्छ राजगृहपुरं, तत्र मन्मित्रस्य श्रेणिकस्य प्राभृतीकुरु एतानि मन्मण्यादीनि वस्तूनि । ततो वर्षे दिने यदा स आईकमत्री राजगृहपुरं प्रति चिचलिपुरभूत् तदा श्रेणिकमत्र्यपि - आर्द्रकुमारपाचँ गत्वा खचलनस्वरूपं प्रोक्तवान् । ततः कोटिमूल्यानि मणिमुक्ताफलपट्टकूलादिवर्यवस्तूनि तस्य मत्रिणो हस्ते दत्त्वा कुमारः प्राह-एतत्सर्वमभयकुमारस्यार्पणीयं त्वया प्रोक्तव्यश्व मत्प्रणामः, तस्य | तद्वर्य वस्तु लात्वा राज्ञा सन्मानितः श्रेणिकमन्त्री आर्द्रकभूपमत्रियुतो राजगृहं प्रति शुभ मुहूर्ते समुद्रमध्ये याना| रूढश्चचाल । क्रमादाकभूपप्रेषितो मत्री श्रेणिकमश्रियुम् राजगृहे गत्वा सर्व भूपार्पितं प्राभृतं श्रेणिकाय ददौ । भरते. ३५ का in Education For Private Personel Use Only helibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy