SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तिः ॥ ॥ २०४ ॥ Jain Education करेण कुलिशाङ्कितेन जनितभयः । धर्मध्वंसनमसुरं यः संहृतवान्नमुचिमचिरात् ॥ ४ ॥ इति इति श्रीविष्णुकुमारचरित्रं समाप्तम् ॥ ४३ ॥ श्रीवीतरागबिम्बस्य, वीक्षणाद्दे हिनामिह । बोधिलाभो भवेदार्द्र, कुमारस्येव तत्क्षणात् ॥ १ ॥ तथाहि—अस्मिन्नेव पयोनिधिमध्ये आर्द्रकनामाऽनार्यदेशोऽस्ति । बहुधनधान्यलक्ष्मीप्रभृतिवर्यवस्तुशाली । तत्रार्द्रक इतिनाम्ना नृपो न्यायाध्वना पृथ्वीं शशास । आर्द्रका राज्ञी सच्छीलशालिनी तस्य बभूव । यतः - "प्रीति| र्जन्मनि वासतोऽप्युपकृतेः सम्बन्धतो लिप्सया । विन्ध्ये हस्तिवदम्बुजे मधुपवत् चन्द्रे पयोराशिवत् ॥ अब्दे चातकवद्भवेदसुमतां सर्वत्र नैमित्तिकी । या निकारणबन्धुरा शिखिवदंभोदे कचित्सा पुनः ॥ १ ॥” अन्यदा श्रेणिको भूपतिः प्रीतिप्राभृतं वर्यं निजमत्रिपार्श्वात् आर्द्रकद्वीपे आईकनृपपार्श्वे प्रेषयामास । तं प्रीतिलेखं प्राभृतकयुक्तं | लात्वा राजा आर्द्रकः श्रेणिकं प्रति मनसा वचसा प्रणनाम पप्रच्छ च मद्बन्धोः मगधेशितुः कुशलमस्ति । ततः | श्रेणिकमन्त्रिणा कुशलोदन्तखरूपे प्रोक्ते आर्द्रकुमारः कृताञ्जलिः प्राह - तात ! तव को मगधाधिपो राजा सुहृद् | विद्यते ? । राजाऽवग्-मगधाधिपेन श्रेणिकेन समं मम प्रीतिरस्ति । पुरापि आत्मीयकुलनृपतिभिस्तत्रत्यभूपैः समं For Private & Personal Use Only श्रीआई कुमार चरित्रम् | ॥ २०४ ॥ jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy