SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ततः साधूनां स्थातुं स्थानं देहि । तेनोक्तं ददामि भवतः स्थातुं स्थानम्, ततो विष्णुकुमारेणोक्तम्-कियन्ति । पदानि देहि । ततस्त्रीणि पदानि दत्तानि तस्मै । ततः क्रोधाध्मातमानसः कृतलक्षयोजनप्रमाणतनुर्विष्णुकुमारः एक पादं पूर्वसमुद्रे द्वितीयं पादं पश्चिमसमुद्रे मुक्त्वा प्राह-तृतीयं पादं कुत्र मुञ्चामि ? इत्युक्त्वा पृथ्वी कम्पयित्वा । पादं नमुचिमस्तकोपरि तथा मुमोच यथा परलोकं गतो नमुचिः। ततो जय जय जिनधर्म इत्युद्घोषमाणैर्देवैरु-NI पेत्य नाटकादिकरणतो विष्णुकुमारस्य क्रोध उपशामितः । ततो गुरुपार्श्वेऽभ्येत्य विष्णुकुमार आलोचनां ललौ।। लोकैः पतितानि गृहाणि सज्जीकृतानि धवलितानि । ततःप्रभृति लोकैरुक्तं बलिरूपं गोमयेन क्रियते गृहाणि । सज्जीक्रियन्ते संप्रत्यपि दीपालिकायाम् । ततो महापद्मचक्री गुरून् ववन्दे अनेकान् जिनप्रासादांश्चक्रे । विष्णु-NI कुमारोऽपि देवैः सेव्यमानः क्रमात् प्राप्तकेवलज्ञानो मुक्तिपुरीं ययौ । उक्तं च-मुनेः प्रशान्तादपि कोपवह्निरुत्पद्यते क्रूरपराभवेन । शीताद्यथा चन्दनतोऽतिघृष्टाद्भानूपलाहहिरिवांशुयोगात् ॥ १॥ विष्णोर्महर्षेत्रिपदी समस्ता, जगत्रयीं या युगपज्जगाहे । परः शताः सन्तु परे कवीन्द्राः, सम्पूर्यते सर्वविदाऽपि किं सा ॥ २ ॥ मेदिन्यामुदिता सेयं, नवा विष्णुपदत्रयी । पश्यन्नपि हि यां प्राणैर्नमुचिर्मुमुचेऽचिरात् ॥३॥ श्रीविष्णुर्जिष्णुरसौ - Jain Education ational For Private & Personel Use Only Nw.jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy