SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तिः ॥ ॥२०३॥ राजा तु स्वयं धर्मध्याने स्थितः । तत्र यज्ञे जायमाने तद्दर्शनार्थ समागतेषु निःशेषदर्शनेषु सुव्रताचार्यमनागतं श्रीविष्णुवीक्ष्य तानाचार्यान्नमुचिर्जगौ-भवद्भिः सर्वैः साधुभिर्मम राज्ये न स्थातव्यम् । ततो गुरवः साधूनाकार्योचुः-INI असौ नमुचिस्तु दुष्टो विद्यते ?, किं करिष्यते, कोऽस्ति यस्तस्य शिक्षा दत्ते । साधवः प्रोचुः-विष्णुकुमारः षष्टिवर्षसहस्राणि यावत् तपः कुर्वाणोऽस्ति । तेन तपसा बढ्यो लब्धयो जाताः सन्ति तस्य । साम्प्रतं स मेरुगिरौ । कृतकायोत्सर्गो विद्यते । स तु महापद्मस्य ज्यायान् भ्राताऽस्ति । तद्वचसैव शाम्यति । ततो गुरुराह-कः । साधुस्तमिहानेतुं समर्थोऽस्ति ?, ततः एकः साधुर्जगौ-भगवन् ! अहं लब्ध्या तत्र गन्तुं प्रभुरस्मि । गुरुभिरूचे-स एव त्वामत्र पुनरानेष्यति। गुरुकार्य विद्यते, तद्वत्स ! साधो ! गच्छ सङ्घकार्ये, शिवाः सन्तुः ते पन्थानः। ततो गुरून् प्रणम्य स साधुश्चलितः । मेरौ गतः, मिलितो विष्णुकुमारस्य । गुरुप्रोक्तं सर्वं तस्याग्रे साधुना । प्रोचे,-महत्कार्य विद्यते, तत्रागमनं विना सर्वेषां साधूनां हननं भविष्यति। ततः प्रतिपन्नं च तेन विष्णुकुमारसाधुना । अथ सङ्घापायनिवारणाय श्रीगुरुपाद्यं विष्णुकुमारः समागतः । गुरुभिः प्रोक्तम्-असौ दुष्टो नमुचिः ॥ २०३॥ शिक्षयितव्यः। ततो विष्णुकुमारो नमुचिपार्श्व गत्वाऽवग्-त्वं राजाऽसि।प्रजापालकस्त्वं,सर्व तपोवनं राज्ञा रक्षणीयम्।। - Jain Education 1. Alona For Private Personel Use Only L ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy