SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ २०२ ॥ Jain Educat प्रभवकथा जम्बूस्वामिकथातो ज्ञातव्या ॥ प्रभावनां जनाधीश मते कुर्वन् जनोऽनिशम् । विष्णुकुमारवन्मुक्तिं, स तामाप्नोति हेलया ॥१॥ तथाहि —— श्रीसुव्रतखामिनि विजयमाने जम्बूद्वीपे गजपुरे इक्ष्वाकुवंशे पद्मोत्तरनृपतेर्व्वालादेवी प्रियाऽभूत् । तस्याः प्रथमो विष्णुकुमारः पुत्रोऽभूत् । तस्याः कुक्षौ द्वितीयश्चतुर्दशस्वप्नसूचितो जीवोऽवततार । क्रमात्तया | सुतोऽसावि । तस्य च महापद्म इति नाम दत्तं पितृभ्याम् । द्वावपि विंशतिधनुर्मान देहौ त्रिंशद्वर्षसहस्रायुष्कौ बभूवतुः । महापद्मः पित्रा राज्येऽभिषिक्तः । इतश्वावन्त्यां श्रीधर्मो राजा प्रकृत्या श्रीजिनधर्मद्वेष्यभूत् । तदमात्योऽपि मिथ्यादृष्टिर्नमुचिनामा बभूव । श्रीमुनिसुव्रतशिष्यं सुव्रताचार्यं तत्र समवसृतं जेतुं कृतप्रतिज्ञो नमुचिस्तत्रागात् । सुव्रताचार्यक्षुल्लकेन नमुचिः सभायां जितः । ततः क्रोधाविष्टो नमुचिः क्षुल्लकवधार्थं निशि उपाश्रये समागतः । खड्गमुत्पाट्य यावदुपस्थितो नमुचिस्तावत् शासनदेव्या स्तम्भितः । प्रातस्तथा स्थितो लोकैर्दृष्टो नमुचिः खिन्नोऽभूत् । देवीं क्षमयित्वा क्षुल्लकं क्षमयामास नमुचिरतः परं नापराधं करिष्येऽहं तव । ततः शासनदेव्या पौरवचनान्मोचितः सः, ततः खिन्नः सन् क्षुल्लककृतपराभवं स्मरन् हस्तिनागपुरे गतो वासं चक्रिवांश्च, tional For Private & Personal Use Only श्रीविष्णुकुमारचरित्रम् | ॥ २०२ ॥ www.jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy