SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ १९८ ॥ Jain Education | मम वल्लभो विगोपितस्तद्वरं न । इत्युक्त्वाऽचलं निष्काश्य देवदत्ता भूपपार्श्वे ययौ । राज्ञोक्तं- किं ते विलोक्यते ? । | वेश्ययोक्तं - स एव मूलदेवो मे वरो भवतु । मयाऽस्मिन् भवेऽतः परं मूलदेवं मुक्त्वाऽन्यो देवकुमारतुल्योऽपि वरो न वरणीयः । तेनातः परं मम गृहे अपरः पुमान् माऽऽगच्छतु । एवमस्त्विति राजा प्राह । को हेतुरत्र ?, ततः शशंसाचलकृतविडम्बनां देवदत्ता मूलदेवस्य । ततो जितशत्रुनृपोऽचलकृतमूलदेवविडम्बनां ज्ञात्वाऽचलमाकार्य | साक्षेपमिदमब्रवीत्-मत्पुरीमण्डनावेतौ, रत्नभूतावरे त्वया । मूर्खेण धनमत्तेन, ग्रावणीव निघर्षितौ ॥ १ ॥ अमुष्य | मूलदेवस्य यस्त्वयाऽपराधः कृतः तस्य दण्डे प्राणापहारोऽस्तु तव । ततस्तमचलं घ्नन्तं राजानं देवदत्ता निवारयामास । | ततो राजाऽवग्-तं मूलदेवमत्रानय त्वं, नो चेत्त्वां हनिष्यामि । ततोऽचलः सार्थवाहो नृपं नत्वा मूलदेवमन्वेष्टुं प्रचक्रमे । नष्टरत्नमिव मूलदेवमपश्यन् भीतो भूपादचलो भाण्डं लात्वा शीघ्रं पारसकूलमण्डलं ययौ । इतो मूलदेवो दध्यौ -देवदत्तया तया विना प्राज्यराज्यश्रिया सृतं लवणेन विना यथा रसवती । ततो मूलदेवो देव - | दत्ताया जितशत्रोश्च भूपतेः पार्श्वे प्राभृतं चतुरदूतयुतं प्रेषयामास । गत्वोज्जयिन्यां स चतुरो दूतो जितशत्रुं | व्यजिज्ञपदिति - देवतादत्तराज्यश्रीर्मूलदेवस्त्वां वदत्यदः - यथा मे देवदत्तायां, प्रेम जानीथ तत्तथा । यदि तस्या 1 For Private & Personal Use Only मूलदेवचरित्रम् | ॥ १९८ ॥ ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy