SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ दुष्पापा भवन्ति । ततः पर्यटन कुम्भी पुराद बहिर्गत्वा चम्पकद्रुमतले नरं भूपलक्षणलक्षितमपश्यत् । हयेन हेषितं चक्रे, गजेनोर्जितगर्जितम् । भृङ्गारेण च तस्यार्घश्वामराभ्यां च वीजनम् ॥ १॥ पुण्डरीकं वर्णदण्डमण्डितं तस्य चोपरि । शरद्ममिवादभ्रं, तडिद्दण्डमिव [ण्डं] व्यजृम्भत ॥२॥तमधिरोहयामास, स्वस्कन्धे जयः Mकुञ्जरः । स्वामिनि मुदितैलोकैश्चक्रे जयजयारवः ॥ ३॥ ततो वाद्यमानेषु तूर्येषु मूलदेवो राज्येऽभिषिक्तोऽ-IN मात्यैर्मुनिदानप्रभावतः। यतः-"दानं मानवदानवेन्द्रपदवीविस्तारणे प्रत्यलं, दानं वासवसुन्दरीसरभसक्रीडाकलाकौशलम् । दानं मोक्षकपाटपाटनविधौ स्फूर्जत्सुरेन्द्रायुधं, दानं विष्टपजन्तुजातनिवहप्रासादसिंहध्वजः ॥ १॥"11 अथोचे देवता व्योम्नि, देवतानां प्रसादतः । अयं विक्रमराजतुल्यो, राजा जज्ञे कलानिधिः ॥ २ ॥ द्वितीयं । नाम तस्य विक्रमराजेत्यभूत् । ये चाऽरयोऽस्याज्ञां न गृहीष्यन्ति तानहं निग्रहीष्यामि महीभृत इवाशनिः । देवतागिरा सर्वे सामन्तामात्यप्रकृतिवैरिणो वश्या बभूवुस्तस्य । ततः स राजा विषयसुखान्यनुभवन् उज्जयिनीशेन समं प्रीतिं चक्रे पूर्वम् । इतस्तदानीं देवदत्तापि मूलदेवविडम्बनां कुट्टिनीकृतां प्रेक्ष्याऽचलं प्रति प्राह-अतः || परं मया त्वया सह भोगो न करिष्यते। यदि त्वया किमपि वक्ष्यते तदाऽहमात्मघातं करिष्ये । त्वया तु मूलदेवो Jain Educa t ional For Private Personel Use Only प w .jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy