SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ अचलोऽप्यवद्भद्रे!, कार्पण्यं किमिदं तव ? । शरीरमपि यच्छन्ति, पत्यर्थे त्वादृशः स्त्रियः ॥२॥ किन्त्वन्यास्तूलिका न स्युः, पतिर्यस्याः किलाचलः । लवणेन स किं सीदे-द्यस्य रत्नाकरः सखा ? ॥ ३ ॥ अचलवचनानुरक्तया कुट्टिन्या बलाद्देवदत्तापार्थात् पर्यकोपरिस्थोऽचलः स्नापितः, यथा पल्यङ्काधःस्थो मूलदेवः खल्याद्यशुचिखरण्टितोऽभूत् । इत्यादि बहुशोऽपमानितोऽचलेन वहस्तेन धृत्वा मूलदेवो गृहान बहिः कर्षितः । ततो| मूलदेवो निजकर्मदूषणं मत्वा गत्वा पुरीसमीपस्थे सरसि सत्रौ । ततो विषादवान् मूलदेवो बेन्नातटं प्रति चचाल । द्वादशयोजनायामायामटव्यां क्रमाद्गतो मूलदेवः । पारावारमिवापारां, तितीर्घस्तां महाटवीम् । | सहायं चिन्तयामास, तरण्डमिव धूर्तराट् ॥१॥इतोऽकस्माच्छम्बलयुतो द्विज एकः कार्पटिकवेषभृत्तत्रागात् । तं विप्रं| समागतं दृष्ट्वा मूलदेवो मुमुदेतराम्।जगाद मूलदेवस्तं, ममारण्यमुपेयुषः । आत्मच्छायाद्वितीयस्य, दिष्टया मिलित-IN वानसि ॥ १॥ स्वच्छन्दं वार्तयिष्याव-स्तदावां द्विजसत्तम! । मार्गखेदापहरणी, विद्या वार्ता हिता पथि ॥२॥ दूरे कियति गन्तव्यं, स्थाने जिगमिषा क ते । कथ्यतां भो महाभाग !, मार्गमैत्री वशीकुरु ॥३॥ विप्रोऽप्याख्यत्-अस्यारण्यस्य पारं गमिष्यामि । त्वं तुक्क यास्यसि ? । मूलदेवोऽवग्-बेन्नातटे पुरेऽहं यास्यामि । ततो द्वावपि | Jain Education anlional For Private & Personel Use Only M ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy