________________
॥ श्रीभरते- श्वरवृत्तिः।
चरित्रम्।
॥१९५॥
इक्षौरानयनाथ दासी प्रेषिता । तया वखामिन्यर्थ इक्षौ मार्गिते पञ्चषान् इशून् मूलदेवो नीतवान् । कठोरत्वेन | all
मूलदेवमूलपर्वादीनपसार्य व्यङ्गुलगण्डिकाश्चक्रे मूलदेवः पीयूषस्येव कुण्डिकाः। चातुर्जातेन संस्कृत्य, कर्पूरेणाधिवास्य च । प्राहिणोन्मूलदेवोऽथ, क्षिप्त्वा रजतभाजने ॥१॥ देवदत्ता कुट्टिनी प्रति जगौ-धूर्तेशाचलयोः पश्य, खर्णरीयॉरिवान्तरम् । मेरुसर्षपयोहँसीकाक्योरिव निरन्तरम् ॥ १॥ कुट्टिन्यचिन्तयंदहो, महामोहान्धमानसा । मृगीव मृगतृष्णाम्भो, धूर्तमेषाऽनुधावति ॥२॥ स कोऽप्युपायो मया करिष्यते येनासौ || निस्सरति । तत एकदा कुट्टिनी अचलं प्रति जगौ-त्वयाऽसौ धूर्ती देवदत्ताया वल्लभस्तथा क्रियते यथाऽत्र । |नायाति । ततः कुट्टिन्या शिक्षितो ग्रामगमनच्छलमुक्त्वाऽचलो निस्ससार । तदा निःशङ्कया तया देवदत्तया मूलदेवो भोगार्थमानीतः, तस्यास्तं विना मनो न रमते । इतोऽकस्मात् कुट्टिन्या अचलस्तत्रानीतः। तदा देवदत्तया पल्यङ्कस्याधो मूलदेवः स्थापितः । अचलः पल्य? उपविष्टो जगौ-प्रिये! अद्य मया स्वप्नं लब्धं, यदि त्वमस्मिन् पल्यङ्के उपविष्टः स्नानं करिष्यसि तदा तव प्रियाया देवदत्ताया जीवितं भविष्यति, नो ॥१९ चेन्मरणं भविष्यति । देवदत्ताऽब्रवीदार्य ! किमेतदुचितं तव?। अदूष्या देवदूष्येयं, तूलिका यद्विनश्यति ॥१॥
Jain Educat
onal
For Private Personel Use Only
ainelibrary.org