SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ | प्रत्यहं विविधद्रव्यमचलो दत्ते स्म । देवदत्ता जगौ - मातर्नाहं धनानुरागिणी । किन्तु लसद्गुणगणा-नुरागिण्यस्मि संततम् ॥ १ ॥ 'अमुष्य द्यूतकारस्य, गुणास्तिष्ठन्ति कीदृशा: ? ।' इति कोपाज्जनन्योक्ता, देवदत्तेत्यभाषत ॥२॥ धीरो वदान्यो विद्याविद्, गुणरागी स्वयं गुणी । विशेषज्ञः शरण्योऽयं, नामुं त्यजामि तत्खलु ॥ ३ ॥ ततः कुट्टिनी रुष्टा तां पुत्रीमुच्चाटयितुं प्रचक्रमे । साऽदत्त प्रार्थिते माल्ये निर्माल्यं सरके पयः । इक्षुखण्डे वंशखण्डं, श्रीखण्डे नीपखण्डलम् ॥ ४ ॥ ततः सकोपं देवदत्ता कुट्टिनीं प्रति रुष्टाऽवग्-रे मातर् ! मया मार्ग्यतेऽन्यत् त्वयाऽन्य| दुर्प्यते किं ग्रथिल्यभूस्त्वम्?, नाहं, किन्तु त्वम् । लतेव कण्टकतरुं, किमालम्ब्य व्यवस्थिता ? | सर्वथा मूलदेवं तत्, त्यजापात्रमिमं पतिम् ॥ १ ॥ अवादीद्देवदत्चैवं मातः ! किमिति मुह्यसि ? । पुमान् पात्रमपात्रं वा, किं मुष्येतापरीक्षितः ॥ २ ॥ तेन द्वयोर्मूलदेवाचलयोः परीक्षा क्रियताम् । ततो देवदत्ताकुट्टिनीभ्यां प्रेषिता दासी अचलपार्श्वे गत्वाऽवग्-देवदत्ताया अद्येक्षोर्भक्षणे वाञ्छा विद्यते । ततोऽचलः सार्थवाह इक्षुभिः समूलैः शकटं भृत्वा प्रेषयामास । हृष्टा कुट्टिन्युवाचैवं - ममात्र स्वामिनी हले ! । अचिन्तनीयमौदार्यं पश्य चिन्ता - | मणेरिव ॥ १ ॥ देवदत्ताऽवग्- किमात्रां करेणुके स्वः यतस्तेन समूला इक्षवः प्रेषिताः । ततो मूलदेवपार्श्वे Jain EducationCH For Private & Personal Use Only www.jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy