________________
जगौ-को विदेशो भवादृशां ?। सर्वःखदेशो गुणिनां, नृणां केसरिणामिव॥१॥-सर्वथा त्वया मद्वचःप्रतिपत्तव्यम्। ततो मूलदेवेनोक्तं-एवमस्तु भवद्वचः। ततस्तयोः क्रीडतोः स्नेहाद्विनोदैर्विविधैः समागत्य राजद्वाःस्थोऽब्रवीदिति
आगच्छ भो वेश्ये ! प्रेक्षाक्षणोऽधुना त्वां समाकारयति राजा । छन्नवेषं मूलदेवं, सा नीत्वा राजवेश्मनि ।। IN राजाने नृत्यमारेभे, रम्भेव करणोज्वलम् ॥ १॥ तदा मूलदेवोऽपि निपुणः पटहमवादयत् । तदा राजा तस्या
नृत्येन करणशालिना रञ्जितो जगौ-मार्गय वाञ्छितं, तयोक्तं-अयं प्रसादः कोशे तिष्ठतु । ततः सा मूलदेवयुता ननर्त्त । ततो राजा तुष्टः स्वाङ्गलग्नं विभूषणं तस्यै ददौ । तदा पाटलीपुत्रपुरस्वामिनो राजद्वारपालको विमलसिंहाख्यस्तत्रागतो जगौ-अयं कलाप्रकर्षों मूलदेवस्य धीमतो विद्यतेऽथवाऽमुष्या वेश्याया, नतु तृतीयस्य कस्यचित, तेनादौ मूलदेवाय दीयतां पश्चाद्वेश्यायै च।अत्रान्तरे धूर्तराजो, वीणां स्वयमवीवदत् ।। हरन् मनांसि विश्वेषां, विश्वावसुरिवापरः॥१॥ततो विमलसिंहेन, बभाषे देव ! खल्वयम् । मूलदेवश्छन्नरूपो, नापरस्येदृशी कला ॥ २ ॥ विज्ञानातिशयस्यास्य, प्रयोक्ता नापरः क्वचित् । मूलदेवं विना देव!, सर्वथाऽसौ स एव तत् ॥ ३ ॥ राजा जगाद-यद्येवं, तदहो खं प्रदर्शय । दर्शने मूलदेवस्य, रत्नस्येवाऽस्मि कौतुकी ॥ ४
SANSAR
Jain Educationp
onal
For Private Personal use only
nelibrary.org