SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 1 साक्षाद्भरत इत्यस्मै मूलदेवाय कथितो देवदत्तया । मूलदेवोऽप्येवमूचे - सत्यमेवायमीदृशी युष्मादृशीभिर्मा| हिताभिः कलाभिः लक्ष्यतेऽयं कलावान् । विचारे उपक्रान्ते विश्वभूतिस्तं खर्वमित्यज्ञासीत् । यती बाह्यार्थी हि तादृशा एव स्युः । मूलदेवेन ध्यातं -- विह्नन्मन्योऽयमस्य तत् ताम्रवर्णालङ्करणस्येवान्तरं दर्शयाम्यहम् । स्वच्छन्दं भारते शास्त्रे तस्य विश्वभूतेः प्रगल्भमानस्य धूर्तराट् पूर्वापरविरोधं दर्शयामास । ततो विश्वभूतिः । कोपादसम्बद्धं भाषते । मूलदेवः प्राह - प्राज्ञैः पृष्टा ह्युपाध्यायाश्छादयन्त्यज्ञतां रुषा । त्वमेवं नाटयेर्नाट्या|चार्य ! नारीषु नान्यतः ॥ १ ॥ इति हसितो मूलदेवेन विश्वभूतिस्तूष्णीकोऽभूत् । स्मेराक्षी देवदत्ताऽपि पश्यन्ती वामनं मुदा । उपाध्यायस्य वैलक्ष्यमपनेतुमवोचत ॥ १ ॥ इदानीमुत्सुका यूयमुपाध्यायाः क्षणान्तरे । परिभाव्याभिधातव्यं, प्रश्ने विज्ञानशालिनाम् ॥ २ ॥ देवदत्ते ! वयं यामो, नाट्यस्यावसरोऽधुना । सज्जव त्वमित्युक्त्वा, | विश्वभूतिस्ततो ययौ ॥ ३ ॥ अन्यत्र । ततो देवदत्ता जगौ - स्नानहेतवे आवयोः कश्चिदङ्गमर्दको त्रिलोक्यते । अजल्पद् धूर्तराजोऽपि व्याहार्षीर्माऽगमर्द्दकम् । सुश्रु! यद्यनुजानासि, तदद्भ्यङ्गं करोमि ते ॥ १ ॥ वेश्ययोक्तंत्वमपि किमेतां कलां वेत्सि १ । मूलदेवो जगौ - अहं न वेद्मि तां कलां, किन्तु तज्जानतामन्तिके स्थितोऽस्मि, । Jain Education International For Private & Personal Use Only ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy