________________
॥ श्रीभरतेश्वरवृत्तिः॥
॥ ९९२ ॥
Jain Education
वीणाकरः, प्रवीणबुद्धिर्बीणामवीवदत् । तेनातिकौतुकात् वल्लकीं वादयन्तं वीक्ष्य व्यक्तग्रामश्रुतिस्वरां धूनयन्ती शिरो देवदत्ताऽपि प्रशशंस तं तदा मूलदेवः स्मित्वाऽवग्- जानामि उज्जयिनीजनोऽत्यन्तनिपुणो गुणागुणवि| बेचने हंस इव दुग्धपयसोः, साशंसा वेश्याऽवग्-किमत्रास्ति क्षूणं ?, यतः छेकश्छेकप्रशंसायामुपहासं हि शङ्कते । सोऽप्यवग्- किं (न) भ्रूणमस्ति वीणावादने ? | वेश्याऽवक्- यदि किमपि भवति तद्वक्तव्यं त्वया । तदा मूलदेवो |ऽवग्-सगर्भाऽसौ तत्री वंशश्च शल्यवानस्ति । वेश्ययोक्तं- त्वया कथं ज्ञातमिदम् ? । ततो मूलदेवो वल्लकीं करे कृत्वा | वंशादश्मानमाकृष्य तन्त्र्याः केशं चादर्शयत् । समारचय्य तां वीणां, सोऽथ स्वयमवादयत् । श्रोतृकर्णेषु पीयूषच्छटामिव परिक्षिपन् ॥ १ ॥ देवदत्ताऽब्रवीचैवं, सामान्यो न कलानिधिः । नररूपं प्रपेदाना, साक्षादिव सरखती ॥ २ ॥ ततो वीणाकरस्तस्य चरणयोर्निपत्योवाच - स्वामिन् ! शिक्षे भवत्पार्श्वे, वीणावाद्यं प्रसीद मे । मूलदेवो जगादैवं, सम्यग् जानामि न ह्यहम् | किन्तु जानामि नान्ये हि, सम्यग् जानन्ति वलुकीम् ॥ १ ॥ ततो || देवदत्ताऽवग्- ते कलावन्तः क्व सन्ति ? | मूलदेवो जगाद - पूर्वस्यां दिशि पाटलीपुत्रपत्तनमस्ति । तस्मिन् पुरे | विक्रमसेनाहः कलाचार्यो महागुणोऽस्ति । तस्य मूलदेवोऽहं सेवकः । अत्रान्तरे विश्वभूतिर्नाट्याचार्यस्तत्रागात्,
For Private & Personal Use Only
मूलदेवचरित्रम् |
॥ ९९२ ॥
Tainelibrary.org