________________
गृहाद् बहिर्दासी तं दृष्ट्वा पश्चादेत्य जगौ-गन्धर्वः कोऽपि कर्णाप्यं गीतं गायति स्म । मूत्यैव वामनः पूर्णैर्गुणैः ।। पुनरवामनः । ततो देवदत्ता कुब्जां दासीं माधवीं नाम्ना प्रजिघाय तं मूलदेवमाह्वातुम् । यतः प्रायो वेश्याः कलाप्रियाः सन्ति । सा दासी तत्र गत्वा जगाद-मम स्वामिनी देवदत्ता गणिका त्वामाह्वयामास गौरवात् । मूलदेवो जगौ-नाहं तत्रागमिष्यामि । कुट्टिनीविटवेश्यानां वश्यत्वे स्ववशः पुमान् कोऽपि न विशेत् । एवं | प्रोच्य कुब्जा व्याघुट्टन्तीं विनोदेन मुष्टिघातात् तां दासीमृगँ मूलदेवश्चक्रे । ऋजुभूता सा चेटिका पश्चात् । स्वामिनीपार्श्वे समागात् । तां तादृशीं दृष्ट्वाऽप्राक्षीद्वेश्या-भो दासि ! कथमीदृक् ते वपुर्जातम् ? । दास्योक्तं-तेना गीतकुशलेन पुंसा मुष्टिघातादीदृश्यहं चक्रे। ततो देवदत्ता चमत्कृताऽभूत् । देवदत्ता ततोऽवादीत-ईदृक्षमुपकारिणं । पुरुषं तमेकशोऽत्रानय । ततो दासी तत्र गत्वा चाटुभिर्वचोभिः प्रीणयित्वा स्ववेश्माभिमुखं (चालितवती) धूर्त-/y राजो भुजिष्ययाऽचालि, तया दास्या निर्दिश्यमानाध्या वेश्यागृहं प्राप । सा तमुपवेशयदासने, हृदयसंवादिसंलापसुभगा मिथस्तयोर्गोष्ठी तुल्या बभूव वैदग्ध्यशालिनोः । यतः-"मृगा मृगैः सङ्गमनुव्रजन्ति, गावश्च । |गोभिस्तुरगास्तुरङ्गैः। मूर्खाश्च मूखैः सुधियः सुधीभिः, समानशीलव्यसनेषु योगः॥१॥" अथागात्तत्र कोऽप्येको ||
Jain EducadSMS
For Private Personal use only
I
w.jainelibrary.org