________________
॥ श्रीभरतेश्वरवृत्तिः॥
॥ १९९ ॥
Jain Education
मनः शुद्धया ददद्दानं, शुद्धं जनः सुसाधवे । मूलदेव इवानोति, राज्यादिसुखसम्पदम् ॥ १ ॥ तथाहि—–गौडदेशेषु विख्यातं पाडलीपुरं नाम्ना पत्तनं विभासते । तत्र राजपुत्रो धियां निधानं कलाकलापकु| शलो मूलदेवनामा बभूव । कीदृशोऽस्ति सः ? । धूर्तविद्यैकधवः, कृपणानां च बान्धवः कूटचेष्टाकुशलः, अजनि च, चौरे चौरः साधौ साधुः, वक्रे वक्र ऋजौ ऋजुः । ग्राम्ये ग्राम्य छेके छेको, विटे विटो भटे भटः ॥ १ ॥ द्यूतकारे द्यूतकारो, वार्तिके वार्तिकश्च सः । तत्कालं स्फटिकाश्मेव, जग्राह पररूपताम् ॥ २ ॥ चित्रैः कौतूह - | लैस्तत्र, लोकं विस्मापयन्नसौ । विद्याधर इव खैरं, चचार चतुराग्रणीः ॥ ३ ॥ अन्यदा द्यूतव्यसनासक्तो मूलदेवः | पित्राऽपमानितः एकाकी स्वपुरान्निर्गत्योज्जयिन्यां जगाम । गुटिकायाः प्रयोगेण, स भूत्वा कुब्जवामनः । पौरान् विस्मापयामास, कलाभिश्चारुभिर्भृशम् ॥ १ ॥ इतस्तत्रैव पुरे रूपलावण्यकलाविज्ञानगुणकुशला देवदत्ताह्वा गणिकाऽजनि । गुणकलावती या या विद्यते तत्र सा गणिका प्रकृष्टा । छेकायास्तस्याः प्रतिमातुल्या काऽपि | नाभूत् । अन्येद्युर्मूलदेवस्तस्या गणिकायाः क्षोभार्थं तद्गृहान्तिके प्रभाते तुम्बरुरिव मधुरगीतेन गातुमारेभे । तं मधुरध्वनिमाकर्ण्य देवदत्ताऽपि दध्यौ - कस्यैष मधुरो ध्वनिरिति विस्मयात्तं ज्ञातुं दासीं प्रेषयामास ।
For Private & Personal Use Only
मूलदेवचरित्रम् |
॥ १९९ ॥
ainelibrary.org