SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ जाममस्यति तस्मै धोटको मया दास्यते । ततः पालकः घोटकं प्राप्तुकामः रात्रौ पश्चात्प्रहरे समुत्थाय कलकलं कृत्वा स्वकीयान भृत्यान् जागरयित्वा सूर्योदयवेलायां प्रभु नेमिं प्रणम्य प्राह-अहं प्रथममद्यात्रागत्य त्वां मलोऽस्मि इति पितुः पुरस्त्वया वक्तव्यं-प्रथममत्र पालको नन्तुमगात् । एवमुक्त्वा पश्चादागत्य तातपार्थे Nोटकं पालकी याचते स्म । कृष्णेनोक्तं चल तत्र श्रीनेमिनाथान्तिके पृष्ट्वा प्रभुमर्पयिष्यते । इतो मध्यरा यतिक्रमे शनैः समुत्थाय शाम्बः पापभीरुः स्वस्थानकस्थ एव प्रभु प्रणनाम । प्रातः समवसरणे कृष्णशाम्बपालकाः प्रभुपार्श्वे गताः । प्रभुं प्रणम्य कृष्णोऽवग्-अद्य प्रभो ! त्वं प्रथमं केन वन्दितः? । प्रभुः प्राह द्रव्यवन्दनेनाहं प्रथमं पालकेन वन्दितः, भाववन्दनेन तु शाम्बेन वन्दितः। वन्दनफलमपि शाम्बेन प्राप्तम्,IN यतः-"ध्यात्वा हृदि त्वां फलमाप शाम्बः, साक्षान्निरीक्ष्यापि न पालकश्च । तेनान्तरङ्गं विधिमामनन्ति, मनीषिणो बाह्यविधेर्बलिष्ठम् ॥ १॥” ततः कृष्णेन शाम्बाय घोटको व्यश्राणि । तौ शाम्बप्रद्युम्नौ क्रमादुत्पन्नवैराग्यौ प्रभुपार्श्वे दीक्षा ललतुः । प्रभूपदिष्टसंयममार्गेण तपः कुर्वाणौ शाम्बप्रद्युम्नौ सर्वकर्मक्षयं कृत्वा क्रमादायुषः क्षये INIश्रीगिरिनारशृङ्गे मुक्तिपुरी जग्मतुः ॥ इति शाम्बप्रद्युम्नकथा भावविषये ॥ ११ ॥ en Education For Private Personal Use Only apelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy