________________
॥ श्रीभरतेश्वरवृत्तिः॥
॥ १९० ॥
Jain Education
| सकोपा सत्यभामा प्राह-रे धृष्ट ! त्वं केनात्रानीतोऽसि । सोऽप्याह -- त्वयाऽहमत्रानीतः कन्योद्वाहं च कारितः । अत्रार्थे सर्वे जनाः साक्षिणः सन्ति पृच्छ्यताम् । तया ते जनाः सर्वे पृष्टास्तथैव जगुः । ततो नवनवतेः कन्यानां शाम्बः पतिर्जज्ञे । ततः सत्यभामा जगौ — मायी बन्धुः पिता मायी, मायिनी यस्य च प्रसूः । मायी सोऽच्छलयत् कन्या - रूपो मां सहजो रिपुः ॥ १ ॥ इत्युक्त्वा बहुरोषात् सा, भामा निःश्वस्य भामिनी । स्वगृहे | दुःखिता मञ्च, जीर्णमाशिश्रियत्ततः ॥ २॥ युग्मम् । वसुदेवं नमस्कर्तुं गतोऽन्यदा शाम्बो जगौ - त्वया बद्द्व्यः स्त्रियो बहुकालात् परिणीताः । मया तु क्षणमात्रतः कन्याशतं परिणीतम् । वसुदेवो जगौ-त्वं कूपमण्डू - कोऽसि मूर्खोऽसि । तत उत्थाय शाम्बो वसुदेवं क्षमयामास । ततः सर्वाः कन्याः शाम्बस्याभूवन् । प्रद्युम्नेना| प्यात्मरूपं प्रकटीकृतम् । ततः शाम्बप्रद्युम्नौ विशेषतोऽखिला यादवा उत्कृष्टौ मेनिरे । शाम्बः सर्वपत्नीयुतः खां मातरं पितरं च ननाम । प्रद्युम्नश्च खां मातरं ननाम ।
एकदा कृष्णस्य केनचित् पुरुषेण जात्यतुरंगमः प्राभृतीकृतः । तदा शाम्बपालकौ द्वौ कुमारौ कृष्णपार्श्वे - भ्येत्य प्रोचतुः - अयं तुरङ्गमो मह्यं दीयताम् । ततः कृष्णेन द्वयोरग्रे प्रोक्तं-यः कल्ये श्रीनेमिनाथं प्रथमं
For Private & Personal Use Only
श्रीप्रद्युम्न
कुमारचरित्रम् ।
॥ १९० ॥
www.ainelibrary.org