SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ भीरुकस्य पुत्रस्य पारणयनहेतवेऽमेलयत् । एका कन्या न मिलति, ततोऽभूत् खिन्ना सत्यभामा । प्रज्ञप्त्या | विद्यया तद्विज्ञाय प्रद्युम्नो जितशत्रुनामा भूपोऽभूत् । शाम्बः कन्यारूपो बभूव । प्रज्ञप्तिविद्याबलात् सार्थ विकुळ जितशत्रुस्तस्थौ । इतो भामा वपुत्रार्थं तां कन्यां जितशत्रु याचते स्म । जितशत्रुर्जगौ-यदि मत्पुत्री भामा करे धृत्वा पुरमध्ये नयति विवाहकाले तु मत्पुत्र्याः कर भीरुककरोपरि च कारयति तदाऽहं मत्पुत्री भीरवे दास्यामि । तदङ्गीकृत्य सत्यभामा तत्रागता, तां कन्या हस्ते गृहीत्वा जितशत्रुराजयुता महोत्सवपुरस्सरं । पुरमध्ये निनाय । तदा लोका जितशत्रु शाम्बं वीक्षन्ते जल्पन्ति च-अहो आत्मपुत्रविवाहसमये एषा सत्यभामा शाम्ब प्रद्युम्नं मानयित्वा समानयति स्म । भामौकसि गतः शाम्बो, भीरोर्वामेतरं करम् । स्वहस्तेनोपरिस्थेना-दाय वामेन वामधीः ॥ १॥ कन्यानां नवनवतेः, पाणीन् दक्षिणपाणिना । धृत्वा च युगपद्वह्नि, || परितो विधिनाऽभ्रमत् ॥ २ ॥ वृत्तोहाहः शाम्बः कन्यारूपः समस्ताभिः समं वासगृहं ययौ । तेन शाम्बेन IN प्रकटीकृतस्वरूपेण भीरुस्तत्रागच्छन् भृकुट्या भीषितो नष्टः । गत्वा त्वरितं भीरुर्मातुरग्रे प्राह-कन्यास्थाने जा शाम्बोऽस्ति । ततोऽश्रद्दधती सत्यभामा स्वयं तत्रागत्य शाम्बमैक्षिष्ट । शाम्बोऽपि समुत्थाय मातरं प्रणनाम । Jain Educati MEDIII o nal For Private & Personel Use Only Taljainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy