SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- श्वरवृत्तिः॥ कुमार ॥१८९॥ कृत्वा जाम्बुवती आभीरिकारूपं कृत्वा दधिविक्रयच्छलेन चलतः स्वस्थानात् पुरद्वारे, शाम्बस्तावालोक्याभीरी श्रीप्रवनप्रति प्राह-अत्रागच्छ गृह्णामि ते गोरसमित्युक्त्वा तामाकृष्य शून्यवेश्मान्तः शाम्बो गतो यदा तदाऽकस्मा चरित्रम् । जाम्बुवतीकृष्णौ वरूपं प्रकटीचक्रतुः । ततो लज्जितः शाम्बोऽनेशत् । ततः कृष्णो जगौ-जाम्बुवति! त्वया । पुत्रस्वरूपं दृष्टं ?, दुर्नयवानेष ते सुतः । सा प्राह-मत्पुत्रो भद्र एवास्ति, एषा बालक्रीडा । कृष्णो जगौ-यतः । सिंही स्वसुतं भद्रं सौम्यं च मन्यते यत्तत्सत्यम् । अथ द्वितीयेऽहनि शाम्बो कीलकभृत्करश्वतुष्पथे गच्छन् कृष्णे लोके च शृण्वति साश्चर्यं प्रोवाच-यो मदीयं कल्येतनं वृत्तं प्रकटीकरिष्यति तस्य ववे कीलकं क्षिपाम्यहम् । तदा खैराचारी निर्लजोऽसि त्वमिति हक्कितो हरिणा त्याजितः स्वपुरं स शाम्बः प्रद्युम्नात् प्रज्ञप्ति विद्यां || प्राप्य निर्ययौ । ततोऽईयन् भीरुकं नित्यं प्रद्युम्नो भामयौच्यत-शाम्बवत् किं न निर्यासि त्वं शठमते ! इतः। पुरात् ? । प्रद्युम्नो जगौ-मातः! क्व गच्छामि, तयोक्तं-श्मशाने याहि, प्रद्युम्नो जगौ-मातः! कदा मया समागन्त-1 व्यम् ? ।भामा जगौ-यदाऽहं हस्ते गृहीत्वा शाम्बं पुरमध्ये समेष्या (प्रवेशया)मि तदा त्वयाऽऽगन्तव्यम् । मातस्त्वदादेशः प्रमाणमित्युक्त्वा प्रद्युम्नशाम्बौ तत्र मिलितौ। इतो भामा हृष्टा खपुत्रयोग्यमेकोनशतं राजकन्याः स्वस्य 1 Jain Educa t ional For Private & Personel Use Only SU j ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy