________________
Jain Educatio
विती हृष्टा स्वगृहं ययौ । इतः कृष्णपार्श्वे भोगार्थं सत्यभामाऽऽगता । कृष्णो दध्यौ - अहो अस्याः स्त्रिया भोगेच्छाया अतृप्तिर्दृश्यते, पुनरपि भोगाय समागात् । यादृश्यः स्त्रियः शास्त्रमध्ये वर्ण्यन्ते तादृश्य एव दृश्यन्तेऽधुनाऽनया स्त्रिया दृष्टया, यतः — “आहारो द्विगुणः स्त्रीणां, निद्रा तासां चतुर्गुणा । षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥ १ ॥ एवं ध्यात्वा हरिस्तां रेमे यदा तदा प्रद्युम्नो भम्भामताडयत् । प्रद्युम्नताडितां भेरीं विदन् क्षुब्धो रमापतिराह - भो सत्यभामे प्रिये ! तव सूनुर्भविष्यति । सत्यभामा जगौ — खामिन् ! त्वद्वचः सत्यं निश्चलं भवतु । प्रातर्जाम्बुवतीकण्ठे हारं दृष्ट्वा कृष्णो दध्यौ - रात्रौ प्रद्युम्नेन विद्याबलात् प्रथमं मम पार्श्वे प्रेषिता ऋमाज्जाम्बुवती वर्यस्वमसूचितं पुत्रं शाम्बाख्यमसूत । सत्यभामा भीरुकं नाम्ना पुत्रमसूत । अथोपायात् रुषिमसुतां वैदर्भी नाम्ना प्रद्युम्न उपयेमे । हेमाङ्गदभूपपुत्रीं सुहरिण्यां शाम्बश्वोपयेमे । सत्यभामा जगौ जाम्बुवतीं त्वत्पुत्रो मत्पुत्रं भीषयामास नित्यम् । जाम्बुवत्यवग्-मम पुत्रोऽतीव शान्तो दान्तोऽस्ति । ततः | सत्यभामया कृष्णस्याग्रे प्रोक्तं - मत्पुत्रं शाम्बो भीषयति सदा । ततोऽन्येद्युः कृष्णेन जाम्बुवत्याः पुरः प्रोक्तं-त्वत्पुत्रः | शाम्बोऽन्यायी श्रूयते । जाम्बुवत्यवग्-मत्पुत्रो नयी विद्यते । कृष्णो जगौ - विलोक्यताम् । ततः कृष्ण आभीररूपं
For Private & Personal Use Only
jainelibrary.org