________________
॥१८८॥
॥ श्रीभरते. दधानः कृष्णोऽवग-किं क्रियते तस्याः शुद्धिरपि न ज्ञायते, वालनं कथं भवति ?। पितरं खेदं दधानं वीक्ष्यश्रीप्रद्युम्नश्वरवृत्तिः॥ प्रज्ञप्त्या विद्यया तामहमत्रानेष्यामि, खेदो न कर्तव्यस्त्वया । तां कन्यामत्रानयेति कृष्णेनोक्तम् । ततः प्रद्यु
कुमार
चरित्रम् । म्नस्ता कन्यकां सद्यस्तत्रानिनाय । ततः कृष्णदुर्योधनाभ्यां प्रोक्तं-भो प्रद्युम्न ! त्वमिमां कन्यां पाणिग्रहणादङ्गी-IN कुरु । प्रद्युम्नोऽवग्-एवं कथं जल्प्यते, एषा कन्या तु मम स्नुषा विद्यते, तस्मात् तव पुत्राय दीयताम् । ततो भानवे
महोत्सवपुरस्सर कन्या विश्राणिता। तदा तादृशं साहसिकं प्रद्युम्नं वीक्ष्यानेकाः खगभूपाः स्वाः स्वाः कन्याः प्रद्युम्नाय व ददुः। ततोऽन्येद्युबर्णमञ्चस्थां सत्यभामां दृष्ट्वा माधवः पप्रच्छ-भो पनि ! किं तव दुःखं विद्यते । सत्यभामा जगौ
प्रद्युम्नतुल्यं सूनुमहमिच्छामि । कृष्णोऽवग्–मा खेदं कुरु, तवेच्छां पूरयिष्यामि । ततः कृष्णेन चतुर्थेन तपसा समाराधितो हरिणैगमेषी प्रकटीभूयावग्-किं विलोक्यते तव ? । कृष्णोऽवग्-प्रद्युम्नकुमारतुल्यं पुत्रं प्रदेहि। ततो हरि(प्रद्युम्न )तुल्यः पुत्रो भविष्यतीत्युक्त्वा हारं दत्त्वा देवस्तिरोदधे । हारप्राप्तिप्रभृतिस्वरूपं मत्वा प्रद्युम्नो | जाम्बुवतीं मातरं सत्यभामातुल्यां विधाय विद्यया हरिगृहे प्रैषीत् । हरिः सत्यभामामागतां मत्वा हारं वितीर्य ॥१८॥ च तया सह भोगान् बुभुजे। तदा दैवादिवश्च्युतः कश्चित् सुरस्तस्याः कुक्षौ सुखप्तसूचितोऽवततार। ततो जाम्बु
Jain Education S
al
For Private Personel Use Only
Taldainelibrary.org