SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ममादायि वनश्रिया ॥ २॥ ध्यात्वेति तां बालां स्वप्रियायै विश्राण्य सार्थपो जगौ-इयं नन्दिनी तुभ्यं नवपुत्रेषु मङ्गलकारिणी वनदेवतया दत्ता, तेन विशेषतोऽनिशं पालनीया। धात्रीभिस्तस्याः शुश्रूषां कारयन् सार्थपः al खपुरं ययौ । वईमाना क्रमाद्गुणैरनध्यैदर्शनीयाऽभूत् । अन्यदा सा बाला नूपुररणत्कारशब्दकृताडम्बरा सखीभिः । Nसह गच्छन्ती श्रीमती गवाक्षोपरिस्थेन भूपेन दृष्टा । ततो व्याघुट्य घोटकं राजा सार्थपगृहद्वारे समागा द्यावत्तावत्सार्थपो राजानमागच्छन्तं श्रुत्वा सम्मुखं समेत्य प्रणणाम । तत्र सिंहासनाधिरूढो राजा पप्रच्छ साथै - कस्येयं बाला रूपलावण्यावर्जितसुरसुन्दरी ?। सार्थपो जगौ-एषा मत्पुत्री विद्यते । मम वने चटिताऽभूत् । यतो । मयाऽसौ पुत्रीतिकृत्वा स्थापिताऽस्ति पुत्रमङ्गलकारिणी । अस्या विरहं क्षणमप्यहं न सहे । ततो राजाऽवक्-IN मम पुत्रीणां शतं विद्यते । तथापि तेषां (तासां) मङ्गलकारिणी भवतु । द्वयोरपि पुत्री अदुःखदर्शिनी वईते! क्रमाद्विवाहयोग्यां ज्ञात्वा सुमतिसार्थेशपुत्राय मदनाय दत्ता । तदा तस्या बिरुदावली श्रोतुमनेके जनाः समायान्ति । भूरिद्रव्यव्ययं मत्वा सार्थपतिः प्राह-भवदीया अन्तःपुर्यः समायान्ति, तासां तादृशी भक्ति कर्तुं न शक्यते तेन कलिः समायान्मद्गृहे पुत्रीसमागमच्छलात् । ततः सर्वो जनस्तत्र गच्छन् निषिद्धो Jain Education For Private Personal Use Only wtainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy