________________
Jain Education
॥ ३ ॥ अशुचीनां निधीभूतं दृश्यमानं मनोहरम् । वैराग्यं कस्य नो कुर्याद्वैरस्यं च सदा वपुः १ ॥ ४ ॥ तेन तपो विना नात्मा शुध्यति । राजा जगौ - त्वमात्मीयं तपः सम्पूर्णं कुरु । पूर्णे तपसि राजा जगौ - अद्य मे वाञ्छितं पूरय भद्रे ! । तयोक्तम् - अद्य पारणं विद्यते । शासन देवीं ततः सा सस्मार । ततस्तां प्रति प्राह रतिसुन्दरीस्वामिनि ! त्वं तथा कुरु यथा मदीयं शीलं तिष्ठति । ततस्तया देव्या तस्यास्तथा रूपं कुत्सितं कृतं यथा राजा तां गलकुष्ठादिव्याधिग्रस्तां ददर्श । तां तादृशीं दृष्ट्वा राजा दध्यौ - इदं देहमशुचि यतः ततः सारं पुण्य| मेव । मया परदारा एषा मुधा गृहीताः । ततो राज्ञा चन्द्रभूपायार्पिता । दिव्यरूपा जाता रतिसुन्दरी शीलस्य प्रभा - वात् । ततो मिथो राज्ञोः प्रीतिरभूत् । देव्या कृतं सान्निध्यं शीलं च निश्चलं ज्ञात्वा राजा तां प्रशशंस । रतिसुन्दरी शीलप्रभावात्स्वर्गं गता । ततो मुक्तिं यास्यति । इति रतिसुन्दरीकथा समाप्ता ॥ ३९ ॥
तस्य यशांसि गीयन्ते, स्वर्गे देवाङ्गनादिभिः । यस्य शीले भवेत् प्रीतिः, श्रीमत्या इव सन्ततम्! ॥ १ ॥ तथाहि - श्रीराजपुर्यां जयद्रथो राजा राज्यं करोति । धनदत्तश्रेष्ठयभवत्तत्र । तस्य प्रिया धनश्रीः । पुत्राः
For Private & Personal Use Only
inelibrary.org