SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ॥ १ ॥ त्यजेदेकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे, आत्मार्थे पृथिवीं त्यजेत् ॥ २॥ इत्यादि दूतो गदन् कण्ठे धृत्वा राज्ञा सभाया बहिः कर्षितः। गत्वा दूतः स्वाम्यन्ते चन्द्रचेष्टितं प्राह । ततोला रुष्टोऽखिलं बलं सन्नह्य प्राचालीन्महेन्द्रभूपः समुद्र इव सैन्ययुग्।तं भूपं समागच्छन्तं श्रुत्वा युद्धाय सज्जीभूतो राजा चन्द्रः सम्मुखोऽगात् । क्रमात्तयोभूपयोर्महायुद्धं भटाभटि खड्गाखगि अस्यसि बभूव । महेन्द्रसिंहेन चन्द्रो जीवितश्च (वन्नेव) बद्धः। स्वयं तु चन्द्रसैन्येषु नश्यत्सु हरिरिव मृगी रतिसुन्दरी महेन्द्रसिंहो जग्राह । विमोच्य | चन्द्रं राजा रतिसुन्दरीं लात्वा तुष्टः खपुरमागान्महेन्द्रसिंहः । प्राह चैनां प्रति-भद्रे! त्वदर्थो ममारम्भः सर्वः ।। भृङ्गो भृङ्गीमिवाहं त्वामेव बहुकालादवाञ्छं। ततो मम प्रिया भूत्वा स्खं जन्म सफलीकुरुष्व । श्रुत्वेति चन्द्रप्रिया । all दध्यौ-धिङ्, मे रूपेण भर्ता ईदृशीं दशां प्राप्तः । दध्यौ चैवं पुनः-असौ कामी दुराचारो, द्यूतकार इवो-| त्सुकः । अपर्यालोच्य मच्चित्तं, धिगीदृशमधिष्ठितः ॥ १॥ तस्मान्मया कथंकारं, शीलं रक्ष्यमतः परम् । सौनिकापणबद्धेन, छागेनैवात्मजीवितम् ॥ २ ॥ यद्वा कालविलम्बो हि, श्रेयसे प्राणसङ्कटे । नीतिवाक्यमितिस्मृत्वा, सा साम्नैवं तमालपत् ॥३॥ गाढानुरागिता ज्ञाता, मयि श्रीनरकुञ्जर!। अतोऽर्थयामि किञ्चित्त्वां, विफलीकुरुषे । - Jain Education na For Private & Personel Use Only akhainelibrary.org T
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy