________________
॥ श्रीभरते-॥ ततः कुलक्रमागता प्रीतिर्न लुप्यते । यतः-" कुलोद्योतकराः पुत्रास्ते एव महिमास्पदम् । सम्बन्धं पूर्वजा- रतिसुंदरीश्वरवृत्ती
चीर्णं, ये न लुम्पन्ति सात्त्विकाः॥१॥” सौजन्यं सद्भिर्न मुच्यते । किं च-वर्यप्रीतिविवृद्ध्यर्थ नवोढा रतिसुन्दरी चरित्रम् । २विभागे
अस्मभ्यं प्रेष्या प्राभृते । दूतवचः श्रुत्वा चन्द्र ईषत् स्मित्वा समालपत्–सौजन्यं कस्य नाभीष्टं, ज्योत्स्नेवामृ-।
तदीधितेः ? । परोपकारो मैत्री च, दाक्षिण्यं प्रियभाषणम् । सौशील्यं विनयस्त्यागः, सज्जनानां गुणा अमी! An १ ॥ तहत ! तव भूपेन, साधूदितमिदं मम । नहि लुम्पन्ति मर्यादां, कुल्याः कुल्यापतिर्यथा ॥ २ ॥
कः प्रियां खीयां कस्मै दत्ते जीवन् सन् ? । दूतः प्राह-नैवं वक्तुं ते च युज्यते । मर्यादा लुम्पमानो हि, घियते केन वारिधिः ? । विधातुं सेतुबन्धं वा, क्षुब्धे तस्मिन्नलं हि कः? ॥१॥ स राजाऽतीव बलवानस्ति । यस्य सेनाभारेण पृथ्वी कम्पयामास । अतस्त्वया सामवाक्यमेव वक्तव्यम् । अथ रुष्टश्चन्द्रो राजा जगौ-रे दूत! तव खामी मम प्रियां वाञ्छन् खभृङ्गता (वाञ्छति स्वगृहागतां) कुलीनस्तव स्वामी श्रूयते स एवं कथं वक्ति ? | ३६३॥ यतः-"प्रहिणोति निजां भायाँ, कोऽपि किं निजमन्दिरे?। गृह्यते केन रत्नं हि, जीवतः पन्नगेशितुः॥१॥"NI दूतः पुनः प्राह-रक्ष्यो यथा तथा खात्मा, राजनीतिरिति स्मृता। जीवतो जायते भद्रं, मृतस्य न हि किञ्चन !
Jain Education Licuana
For Private Personel Use Only
jainelibrary.org