________________
Jain Educatio
पार्श्वे गता । तदा श्रीगुरुभिरुक्तम्- यो रोहिणीतपः शुद्धभावेन कुरुते सदा । स एव लभते सद्यः, स्वर्गापवर्गसम्पदम्, ॥ १ ॥ रोहिण्याह - तपः कथं कार्यम् ? | गुरुणोचे - श्रीवासुपूज्यप्रतिमाग्रे रोहिणीनक्षत्रे उपवासः कार्यः । उद्यापनेन सहितः सप्त वर्षाणि सप्त मासांश्च यावदुपवासः कार्यः । श्रीवासुपूज्यप्रतिमा रोहिणीयुता कार्यते । एकनवतिर्मो| दकादिवस्तूनि प्रभोः पुरो ढौक्यन्ते । तपः सकललक्ष्मीणां, नियन्त्रणमशृङ्खलम् । दुरितप्रेतभूतानां, रक्षामन्त्रों निरक्षरः ॥ १ ॥ यस्माद्दिनपरम्परा विघटते दास्यं सुराः कुर्वते, कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति । उन्मीलन्ति महर्द्धयः कलयति ध्वंसं च यः कर्मणां स्वाधीनं त्रिदिवं शिवं च भवति श्लाघ्यं तपस्तन्न | किम् ? ॥ २ ॥ तद्रोहिणी तपः शुद्धमाराध्य रोहिणी शिवगमनयोग्यं पुण्यमर्जयामास । प्रान्ते शुद्धामाराधनां कृत्वा रोहिणी प्रथमे खर्गे जगाम । ततश्च्युत्वा मानुषं जन्म प्राप्य मुक्ति गता । इति रोहिणीतपः । [ इति रोहिणीकथा समाप्ता ॥ ३८ ॥ ]
सुशीलरक्षणे वाञ्छा, विद्यते यस्य देहिनः । स एव लभते सातं, सुन्दैरीव शुभाशयः ॥ १ ॥ तथाहि - साकेतपुरे नरकेसरी राजा राज्यं करोति स्म । तस्य प्रिया कमलसुन्दरी । रतिसुन्दरी पुत्री चाभूत् ।
For Private & Personal Use Only
ainelibrary.org