________________
भीमरतेश्वरवृत्ती २विभागे
चरित्रम्।
N मुसलधाराभिर्मेघो ववर्ष यथा नदीहदादिस्थानानि सर्वाणि परितो भृतानि बभूवुः। ततो नद्यो निजतटान्युल्लङ्घय । रोहिणी
प्रतोलीहाराण्यपि रोधयामासुः । ततः पुरीं पयसा प्लाव्यमानां दृष्ट्वा राजा दध्यौ-सा रोहिणी यदि प्रतोल्यां समेति तदा तस्याः शीलप्रभावात् पानीयं विरमेत् ! । ततो रोहिण्याकारिता तत्र राज्ञा ।प्रोक्तं च-भो भगिनि! all त्वं पानीयं निवारय ! । ततो रोहिणी मनुष्येषु लक्षमितेषु पश्यत्सु पुरः प्रतोल्या उपरि स्थित्वा नमस्कार भणित्वाऽऽह-यदि मया शुद्धमस्मिन् भवे शीलं पालितं स्यात्तदाऽधुना जलोपसर्गो विरमतु । गङ्गे! त्वदङ्गचङ्गं चेत्रिशुद्ध्या शीलमस्ति मे । निवर्तख पुरादस्मात्ताान्नागचमूरिव ॥ १॥ इत्युक्ते तया नद्याः पूरः क्षणाद्विरराम । ततो लोका हृष्टा जगुः-अहो शीलमहो जैनधर्मोऽयमिति सर्वतः । भुवि व्योम्नि ध्वनिर्जातो, नृणां । सुधाभुजामिव! ॥ १ ॥ अहो अस्या महासत्या, रोहिण्याः शीलमजुतम् । विद्यते सर्वलोकानामुपसर्गहरं खलु ॥ २ ॥ रोहिण्या वचनेन तदा बहवो जना जैनं धर्म प्रपेदिरे । ततो राजा जगौ-अस्या यादृशं शीलमस्ति ॥ ३६१ ॥ तादृशमन्यत्र कुत्रापि न दृश्यते । ततो नृपकान्तादिलोकयुक्ता रोहिणी सर्वेषु जिनचैत्येषु जिनवन्दनां पूजापुरस्सरं चकार । धनावहोऽपि हृष्टः प्रियायाः शीलमाहात्म्यं दृष्ट्वा जिनधर्म ललौ। एकदा रोहिणी धर्मोपदेशं श्रोतुं श्रीगुरु
in Education
Minelibrary.org
a
For Private Personal Use Only
l
14