SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ दृश्येते तथा स्त्रीषु दृश्येते । इयं स्त्री पुरुषं भ्रमे पातयति । “जाज्वलीति यथा सूर्योपलः सूर्यविलोकनात् । तथा कामानलः पुंसां, मूढानां स्त्रीनिरीक्षणात् ! ॥१॥” स्वामिस्त्वं सर्वासां प्रजानां गुरुरसि । प्रादुष्प्यन्ति । नरेन्द्रेभ्यो यतो न्यायप्रवृत्तयः। मार्गोल्लङ्घनं कर्तुं न युक्तं । स्त्री नरकखानिः । यतः-"खानिर्नरकदुःखाना, ग्लानिः सुगतिसम्पदाम् । पत्तनं चैव पापानामपि वैषयिकं सुखम् ! ॥ १॥” एवं तद्वचनाज्ज्ञातवान् परनारीसम्भोगमनन्तदुःखदं । राजा समुत्थाय रोहिणी क्षमयामास, प्राह च-सन्ति भद्रे! दुराचारमुपदेष्टारः पदे पदे । हितार्थमुपदीकर्तुं, विरला एव केचन ॥१॥ अस्माकं कुमार्गाकरनिषेधनात्त्वं गुरुरसि । ततस्तस्या गुणश्रेणी शीलं च प्रशंसन् भूपःखावासं ययौ । इतोऽर्जितधनो धनावहः श्रेष्ठी स्वगृहमागात् ।रोहिणी तदा खकाNन्तमुखचन्द्रदर्शनान्मुमुदेतराम् । एकदा चेटीमुखान्नरेद्रागमनोदन्तं श्रुत्वा श्रेष्ठी दध्याविति-समासाद्य मधुश्छत्रं, वानरः क्षुधितोऽशनम् । काको दधिघटीं प्राप्य, विजने किमु मुञ्चति? ॥१॥ लावण्यामृतकुल्येयं, तथा प्रेयखिनी || मम । नृपेष्वतिथितां प्राप्य, सुशीला कथमस्ति तत् ? ॥ २॥ इत्यादि विकल्पशतानि चिन्तयन् श्रेष्ठी धनावहः भरते. ६१५ प्रियां त्यक्तुकामोऽभूत् । इतो घनाघनस्तस्या रोहिण्याः कलङ्कमुत्तारयितुं समागात् । अथ सप्त दिनानि तथा Jain Education For Private Personal Use Only Sinelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy