________________
Jain Educatio
मतम् । स मुकुन्दो मृत्वाऽजितसेनोऽभूत् । श्रीमती त्वमभूः । तेन तव पत्या श्वशुरादिभिश्व सह वियोगोऽभूत् । ततो नन्दयन्ती विशेषतो धर्मं कृत्वा खशीलं पालयन्ती प्रथमस्खर्गे गता । ततश्युत्वा मुक्तिं गमिष्यति । इति | नन्दयन्तीकथा समाप्ता ॥ ३७ ॥
शीलं वितन्वतां पुंसां, शुद्धेन मनसा सदा । रोहिणीव सुखश्रेणीर्नराणां लभते चिरम् ! ॥ १ ॥
तथाहि -पाटलीपुत्रे पुरे श्रीनन्दो मेदिनीपतिर्बभूव । तत्र धनावहः श्रेष्ठी अभूत् । तस्य प्रिया रोहिणीति नाम्ना जाता । धनावहः श्रेष्ठी समुद्रमध्ये धनार्जनाय चलितः । तदा रोहिणी वेणीबन्धमाधाय स्वशीर्षे सखीवृन्देषु निनाय दिवसान् धर्मकर्मभिः । धूलीकदम्बपुष्पौघधूसरिताम्बरो ग्रीष्मकालस्तदाऽऽगमत् । तदानीमुद्याने गच्छन् क्रीडार्थं श्रीनन्दभूपतिः वातायनस्थां रोहिणीं ददर्श । तदा स दर्श दर्श रोहिणीं तल्लीनचित्तो राजाऽभूत् । ततो भूपो गृहे समेत्य प्राभृतसंयुतां दूतीं प्राहिणोदुपरोहिणि । तत्र गत्वा दूती प्राह- त्वां नन्दभूपः कामयते । सफलीकुरु स्वं पुण्यं तारुण्यं तस्य सङ्गमात् । श्रुत्वेति रोहिणी दध्यौ - अहो कुलमनालोच्य, | निजमेष निरर्गलः । मत्तदन्तीव मे शीलद्रुममुन्मूलयिष्यति ॥ १ ॥ उपायैस्तावदयं बोध्यो भूपो यावन्मार्गे
For Private & Personal Use Only
jainelibrary.org