SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ स्नुषामकाले गच्छन्तीं दृष्ट्वा दध्यौ-इयं स्नुषा मया सुशीला ज्ञाता पूर्वम् । अधुना त्वेवं कुर्वाणा दृश्यमानाऽस्ति । ततो न ज्ञायते स्त्रीणां स्वरूपं केनापि सम्यक् । यतः-" अश्वप्लुतं माधवर्जितं च, स्त्रीणां चरित्रं भविMall तव्यतां च। अवर्षणं वापि सुवर्षणं च, देवा न जानन्ति कुतो मनुष्याः ?॥ १॥ मनस्यन्यद्वचस्यन्यत्, क्रियाया मन्यदेव हि । नारीणां विद्यते नूनं, दोषमय्यः स्त्रियो यतः॥२॥ सद्गोत्रजा अपि घना, रसकल्लोलसङ्कुलाः। प्रायः स्त्रियो भवन्त्येव, निम्नगा इव निम्नगाः ॥३॥ एताः स्वार्थपरा नार्यो, बहिरेव मनोहराः। अत्यन्तदारुणाश्चान्तः, स्वर्णा क्तच्छुरिका इव ॥ ४ ॥” एवं ध्यायति श्रेष्ठिनि निर्माया निष्कलङ्का सती शीलवती किञ्चिदनिन्दितं कार्यं कृत्वा । का पुनस्तत्र घटं मुक्त्वा स्वशय्यायामुपेत्य सुप्ता।ततश्चिन्तापरः श्रेष्ठी प्रातः प्रियाया अग्रे प्राह-वधूः शीलगुणैर्वृद्धे !, N|| कीदृशी प्रतिभाति ते?।तयोक्तं कुलमर्यादानुरूपं चेष्टतेऽखिलम् ! ॥ १॥ श्रेष्ठी जगौ प्रिये ! नैव, स्नुषाऽऽत्मीया जावरा खलु । यतोऽद्य रजनौ वापि, गच्छन्ती वीक्षिता रहः॥२॥ श्रेष्ठिन्याह-वधूरियं विरुद्धा नास्ति । श्रेष्ठय-12 गावग्-यन्नेत्रैर्वीक्ष्यते तदेव सत्यं । मयैषा मध्यरात्रे घटमादाय बहिर्गता दृष्टा । मुहूर्त यावत् केनापि नरेण सह रत्वा | गृहे प्राप्ता । ततः परोक्षात् प्रत्यक्षं बलवद्विद्यते। मया तु साक्षाद् दृष्टा । इतः प्रातरजितसेनो जिनेन्द्रगुरुक्रम Join Educat onal For Private Personel Use Only ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy