________________
॥ श्रीभरतेश्वरवृत्ती २विभागे
॥३५॥
वरं श्रेष्ठं ?, तदिष्टा किं भविष्यति ? । किमसौ श्वशुरादीन्वा, खगुणै रञ्जयिष्यति ? ॥१॥ पालयिष्यति शीलं शीलवतीकिं ?, प्रसविष्यति किं सुतम् ? । श्वशुरादिकवर्गोऽस्याः, कथं वा तोषयिष्यति ? ॥२॥ मा भवन्तु सपत्न्योऽस्या, N कथा दुष्येयुर्मा स्म मातरः । इत्थं पितृगृहे कन्या, मूर्त्ता चिन्तेव वईते ॥३॥” एषा पुत्री गुणमाणिक्यरोहणाचलसोदरी विद्यते। वरः सदृशो न दृश्यते । मयोक्तं-तत्र चिन्तां मा कुरु । श्रीनन्दने पुरे रत्नाकरश्रेष्ठिनः । पुत्रोऽजितसेनो विद्यते । स तव पुत्र्या योग्योऽस्ति । ततो जिनदत्तोऽवक् मां प्रति-भो भद्र ! त्वया साधूक्तं । वरचिन्तोदधौ पतितोऽहं भवताऽद्योद्धृतः । एवमुक्त्वा तेन श्रेष्ठिना खसुतां दातुं वरविलोकनार्थं च स्वपुत्रो जिन-IN शेखरः प्रहितोऽस्ति मया सार्धमत्र। स च मद्गृहे विद्यते । रत्नाकरः श्रेष्ठी जगौ-तर्हि स आकार्यताम् । ततो वणिजा ! तत्रानीतो जिनशेखरः। जिनशेखरेण वरं विलोक्य भगिन्या विवाहो मेलितः । ततोऽजितसेनस्तत्र गतवान् । शीलवतीं परिणीयाजितसेनो महामहःपूर्व पश्चादागात् । रत्नाकरः श्रेष्ठी तया स्नुषया विनीतया हृष्टः सन् खं N३०॥ कृतार्थ मन्यते स्म । यतः- "सुषया वर्यया स्वीयकुलगेहप्रदीपया । त्रिवर्गसारगार्हस्थ्यं, मन्यते मानवः खलु ॥ १ ॥” अन्यदा मध्यरात्रौ शिवाशब्दं श्रुत्वा घटं मस्तके कृत्वा च शनैर्गुहान्निस्ससार । तदा श्रेष्ठी तां ।
Jain Education
For Private & Personel Use Only
Einelibrary.org
IT