________________
। यत्थं सयं देइ एसा ॥ ३ ॥ तस्मादार्यपुत्र ! पुत्रार्थ तस्या उपयाचितुमर्हसि । पुत्रार्थे हि विधीयन्ते स्वप्राणा अप्युपायनम् । तेन श्रेष्ठिनाऽऽराधिता देवी प्राह-तवाधुना पुत्राभावकृदन्तरायकर्म क्षयं गतं। पुत्रो भविष्यति ।
छेष्ठिनः पुत्रोऽभवत् । भाग्ययोगात फलत्येव काले खाराधिता क्रिया। अथ जन्मोत्सवं कृत्वा सूनोरजितसेनेति नाम श्रेष्ठी ददौ । क्रमाद्वाल्यमतिक्रम्य यौवनश्रियं प्राप । अजितसेनपुत्रस्य तस्यानुरूपकन्यायै श्रेष्ठी रत्नाकरो बुद्धिमानिव शास्त्रं सन्दोहमानो दध्यौ। कन्यां गुणैस्तुल्यां यद्येष मम नन्दनो लभते तदा वरम् । यतः
:प्रभुः पारवश्यं दुर्विनयोऽनुगः। दुष्टा च भार्या चत्वारि, मनःशल्यानि देहिनाम् ॥ १॥” इतश्च व्यवसायार्थ तेनैव श्रेष्ठिना प्रहितः पुरा कोऽपि पश्चादभ्येत्य वणिक्सुतस्तदन्तिकमुपाविशत् ।-व्यवहारस्वरूपं च, स पृष्टः श्रेष्ठिना कृती।आयव्ययादिकं सर्व, व्याजहार यथाविधि॥१॥ ततः पश्चादागच्छन्नहं मङ्गलपुर्यामगा। तत्र जिनदत्तश्रेष्ठिना सह व्यवसायं कुर्वन् एकदा भोजनाय निमनितोऽहमद्राक्षं कन्यकां तत्रैकामद्भुताकाराम् ।। ततो भोजनानन्तरं मया प्रष्ट श्रेटिन्नियं ते देवकन्येव का कन्या विद्यते । श्रेष्ठी प्राह-ममेयं शीलवत्याहवा वरयोग्याऽस्ति । तादृशो वरो तद्योग्यो न मिलति तेनातीव चिन्ता चेतसि विद्यते मम । यतः-" किं प्राप्स्वति
Jain Educat
onal
For Private & Personel Use Only
Inswerjainelibrary.org