SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ताः सर्वाः सत्य एव अथवा न सन्ति ?। श्रीनेमिनाथो जगौ-सर्वा अग्रमहिष्यः सत्य एव । ततः कृष्णः प्रोवाचभगवन् ! वर्षमध्ये का सर्वोत्कृष्टा तिथिर्विद्यते ?। प्रभुः प्राह-मार्गशीर्षस्य शुद्धा एकादशी सर्वोत्कृष्टा विद्यते।। एवं कथमुच्यते । श्रीनेमिनाथो जगौ-मार्गशीर्षस्य शुद्धायामेकादश्यां श्रीअरजिनस्य दीक्षा। श्रीमल्लिनाथस्य । जन्म दीक्षा ज्ञानं च । श्रीनमिनाथस्य दीक्षाऽभूत् । यथाऽस्मिन् भरते पञ्च कल्याणकानि जातानि तथा शेषेषु भरतेषु एरावतेषु पञ्चसु पञ्चसु पञ्च पञ्च कल्याणकानि। एवं सर्वकल्याणकानि पञ्चाशत् भवन्ति। अतः कारणात्तेषु कल्याणेषु विशेषतया तपः कार्यम् । ततः कृष्णो जाम्बुवत्यादिपत्नीयुतस्तां तिथिमारराध विशेषात् । ततो लोकैरपि एकादशी तिथिराराधिता । अद्यापि लोकैस्तां तिथिं मुक्त्वा सर्वा एकादश्यो मूढराराध्यन्तेऽपुण्यवद्भिः। तासां कृष्णस्य पत्नीनां देवैरपि समेत्य शीलचालनं न कृतं । पुनर्न मनाग् चलिताः सत्यभामादयः । उभयकालं प्रतिक्रमणं त्रिकालं जिनपूजाः सर्वाः सत्यभामादयः कुर्वते। क्रमादवसरे श्रीनेमिनाथपार्श्वे दीक्षा ललुः । ततो निरंतर यतिनीपार्श्वे षष्ठाष्टमाऽऽदि तपः कुर्वते तथा यथा क्षीणकर्मलेपा जाताः । श्रीशत्रुञ्जये गत्वा तीवं तपः कुर्वाणाः भरते.५९ IN केवलज्ञानं । स्वखायुषः क्षये मुक्तिं ययुः। इति कृष्णाग्रमहिषीकथाः सङ्क्षपात, विस्तरात्वस्थाने ज्ञातव्याः ॥३४॥ Jain Education anal For Private Personal use only
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy