________________
कृष्णाग्र महिष्यः।
॥३४८॥
॥ श्रीभरते. गौरी गान्धारी लक्ष्मणों सुसीमा जाम्बूवती सत्यभामा रुक्मिण्यभिधा अष्टौ राजपुत्र्यो महामहोत्सवपूर्व पृथक् । श्वरवृत्ती सवाणा पृथक् परिणीताः । अष्टौ अग्रमहिष्यः कृताः कृष्णेन । एतासां परिणयनस्वरूपं विस्तरात् श्रीनेमिनाथचरित्रे
। ज्ञेयम् । समुद्रविजयराजपुत्रः श्रीनेमिकुमारस्तृणवद्राजीमत्यादि राज्यं च त्यक्त्वा वर्ष यावद्दानं दत्त्वा श्रीगिरि
नारगिरौ संयमं जग्राह। क्रमात् केवलज्ञानमपि प्रपेदे । स श्रीनेमिजिनोऽन्येचुर्भव्यजीवान् प्रबोधयन् द्वारकायां ।
बहिरुद्याने समवासार्षीत् ।प्रभुं तत्र समवसृतं श्रुत्वा कृष्णो दध्यौ। अद्य मम भ्राता श्रीनेमिरागतोऽस्ति। तेन गत्वा । कावन्दिष्ये तं जिनम् । ततस्तस्मै वर्धापनकाय पारितोषिकं ददौ । तत्र धर्म श्रोतुं श्रीकृष्णसमुद्रविजयराजवसुदेवा
दयो बहवो नृपा गताः। प्रभुणेति धर्मोपदेशो ददे । तथाहि-"स्वर्गस्तस्य गृहाङ्गणं सहचरी साम्राज्यलक्ष्मीः शुभा, सौभाग्यादिगुणावलिविलसति खैरं वपुर्वेश्मनि । संसारः सुतरः शिवं करतलकोडे लुठत्यञ्जसा, यः श्रद्धाभर-1 भाजनं जिनपतेः पूजां विधत्ते जनः॥१॥ रत्नानामिव रोहणः क्षितिधरः खं तारकाणामिव, स्वर्गः कल्पमहीरुहा
मिव सरः पड्केरुहाणामिव । पाथोधिः पयसामिवेन्दु महसां स्थानं गुणानामसावित्यालोच्य विरच्यतां भगवतः IN सङ्घस्य पूजाविधिः ॥ २॥” देशनान्ते श्रीकृष्णः पप्रच्छ-भगवन् ! ममामूरष्टौ अग्रमहिष्यो जाया वर्तन्ते
॥३४८॥
Jan Education
For Private Personal use only
LArainelibrary.org