________________
Nउद्याने लक्ष्मीधवलगृहसोदरे पुरातनी लक्ष्मीमूर्तिमुत्थाप्य रुक्मिणी हरिरतिष्ठिपत् । ततो गृहे समागात
कृष्णः। सत्यभामया प्रोक्तं त्वया कीदृशी प्रियाऽऽनीताऽस्ति ?। कृष्णोऽवक्-सुन्दरोद्याने मुक्ताऽस्ति यस्मिन् श्रीगृहमस्ति । ततः सत्यभामा कृष्णान्यपत्नीयुता चचाल । मार्गे श्रीगृहं प्राप । तत्र रुक्मिणीमुपविष्टां वीक्ष्य लक्ष्मी-12 भ्रान्त्या तस्याः पादयोः पपात । ततस्तां प्राह-भो लक्ष्मि ! त्वं सर्वस्य वाञ्छितं दत्से । तेन मम सर्वस्त्रीपूत्कृष्टं रूपं कुरु । तयोक्तं-भविष्यति तवोत्कृष्टं रूपम् । अग्रे सत्यभामा रुक्मिणी द्रष्टुं चचाल । तदा रुक्मिणी उत्थिता श्रीस्तत्रोपविष्टा । ततः सत्यभामा पश्चाद्वलित्वा कृष्णं प्राह-त्वयाऽहं वाहिता।अस्याः पादयोः पातिताऽस्मि । अहं मुग्धा । ततः कृष्णो हसित्वा प्राह-भो भामे ! इयं त्वया श्रीबुद्ध्याऽऽराधिता । ततोऽतः परमसौ पट्टराश्यस्तु ।। |ततः क्रुद्धा सत्यभामा खगृहं ययौ । एवं सर्वासु भार्यासु रुक्मिणी मुख्यां कृत्वा कृष्णो राज्यं करोति स्म । अन्येद्युः श्रीनेमिपार्श्वे धर्म श्रोतुं गता । तदा तत्र प्रभुणा प्रोक्तं जीवदयामयं धर्म श्रुत्वा रुक्मिणी दीक्षा ललौ । खड्गधारासहोदरं तीव्र तपस्तप्त्वा क्रमात् क्षीणकर्मा रुक्मिणी मुक्तिपुरी जगाम। इतिरुक्मिणीकथा समाप्ता ॥३३॥ द्वारकायां पुरि वसुदेवपुत्रः श्रीकृष्णस्त्रिखण्डाधिपो न्यायाध्वना पृथ्वीं पालयामास । तेन कृष्णेन पद्मावती
JainEducation Inter
For Private
Personal Use Only
Shelibrary.org