________________
॥ श्रीभरतेश्वरवृत्तौ २ विभागे
॥ ३४७ ॥
द्युवयोराकुलाऽस्मि तत् ॥ १ ॥ ततः कृष्णः प्राह मा भैषीस्त्वं रिपुच्छेदि, शौयं पश्येति नौ ब्रुवन् । तद्भीच्छिदे हरिस्तालीं, चिच्छेदैकेन पत्रिणा ! ॥ २ ॥ प्रिये ! मदग्रे एतौ वराकौ काकाविव गमिष्यतो नाशमित्युक्तत्वा कृष्णो मुद्रिकावर्जं घटवदचूर्णयत् । ततः युद्धसंरम्भिणं कोपात् खानुजं वीक्ष्यं रथी बलस्तत्रागृह्य सप्रियः प्रैषीत् । स्वयं तत्रैव तस्थिवान् । रुक्मिणी प्राह - खामिन् ! कृष्ण तथा त्वया युद्धं कार्यं यथा क्रूरोऽपि रुक्भिभूपालो रक्षणीयो रणाङ्गणे ! । रथेन जविना गेहं, प्रस्थिते सप्रिये हरौ । अमन्थत्तूर्ण स क्षमाभृतो वैरिबलार्णवम् ॥१॥ हलेन कुलिशेनेव, विद्विषो बलसूदनः । मूसली पातयामास, दन्ताबलः शिलोच्चयान् ॥ २ ॥ तदानीं धोरे रणे जायमाने भीतः शिशुपालो नंष्ट्वा कापि जगाम । पुनः क्षणाद्युद्धं कर्तुं शिशुपालो डुढौके रुक्म्यपि च । तदानीं युद्धं कुर्वता नारायणेन शिशुपालशिरः छिन्नं कमलनालवत् । जगादैवं बली रुक्मिणं प्रति - रुक्मिणीवधूवचनान्मुक्तोऽसि गच्छ जीवितं लात्वा । तत्रैव पुरं निवेश्य रुक्मी तस्थौ । कृष्णस्तु द्वारकाया बहिरुद्याने समागात् । खपुरे स्वर्गपुरसोदरे दर्शिते हरिणा रुक्मिणी प्राह- इदं वर्यं पुरमस्ति । परं त्वयाऽहं छलेनात्रानीताऽस्मि । हरि राहत्वया खेदो न कार्यः, अहं त्वां सर्वासु पत्नीषु मुख्यां करिष्यामि । ततो गान्धर्वविवाहेन परिणेयां हरिः परिणिन्ये ।
Jain Educationonal
For Private & Personal Use Only
सत्यभामा कथा ।
॥ ३४७ ॥
Cainelibrary.org