________________
कथा।
॥श्रीभरतेश्वरवृत्ती २विभागे ॥ ३४६॥
सत्यभामा वदनं दर्पणे वीक्षमाणया नारदो न नमस्कृतः । देवाधीश्वरप्रिया अपि ममावज्ञां न कुर्वन्ति । सत्यभामास्म । एषा पुनरहंयुत्त्वादौचित्यमपि नाचरत् । क्रुद्धो नारदो व्योममार्गेण कुण्डिनपुरं गतः। रुक्मिराजखस्रा । 2 रुक्मिण्या सत्कृतस्तत्र । ततस्तस्याः पुरो हरिगुणानाचष्ट । कृत्वाऽनुरागिणीं विष्णौ तां रुक्मिणी तस्या रूपं चित्रपटे लिखित्वा कृष्णस्य दर्शयामास । कृष्णोऽवग्-कस्या रूपमिदं ? । नारदो जगौ-रुक्मिभूपतेर्लघुः खसा रुक्मिणी । कन्येयम् । तदा तेन वर्ण्यमानान् गुणानाकर्ण्य कृष्णोऽनुरागभारं बभार तस्याम् । कृष्णः प्राह-भो | ऋषे! तथा कुरु यथा ममेयं पत्नी भवति । मुनिराह-मया त्वय्यनुरागिणी भृशं कृताऽस्ति । दूतं तत्र प्रेष्य । मार्गय तां त्वम् । अहं तथा करिष्ये यथा तव पत्नी भविष्यति । विचारो न कर्तव्यः । कृष्णोऽभ्यर्च्य तं रुक्मिणी याचितुं दूतं प्राहिणोत् रुक्मिणं प्रति । दूतस्तत्र गत्वा कृष्णोक्तं प्रोक्तवान् । ततो रुक्मी प्राहगोपाय भगिनीमहं न दास्यामि । पुरा मयेयं शिशुपालाय दत्ताऽस्ति । तं वरं विना नासौ शोभां लभते । रत्नं ॥३४६ ॥ हेमाश्रितं भाति, ज्योत्स्ना चन्द्राश्रिता पुनः । नागवल्या मुखं यद्वत्तथेयं तेन निश्चितम् ॥ १ ॥ इत्याद्युक्त्वा दूतं पश्चात् प्रेषयामास । रुक्मीदूतः पश्चादागत्य कृष्णाय रुक्मिप्रोक्तं प्रोक्तवान् । इतो रुक्मिणीपितृस्वसा प्राह
Jain Educator
For Private & Personel Use Only
Mainelibrary.org