________________
कीरस्य दुःखान्मृत्वाऽनशनेन मृत्युना सौधर्मेऽभूत् प्रिया तस्य । बुभुजाते च तौ सुखम्। राजन् ! शुकजीवस्त्वं । शङ्खनामा त्वं ततच्युतो बभूव । सुलोचनाजीवः पुनरेषा कलावती। प्राग्भवे यत्कलावत्या पक्षौ छिन्नौ शुकस्य ते । तत्कर्मविपाकेन त्वयाऽस्याःछेदितौ करौ । सर्वस्य कर्मणोऽवश्यं, शुभस्याप्यशुभस्य च । दशधा बहुधा चैव, विपाकः | परिपच्यते ॥१॥ ततस्तौ शङ्खकलावत्यौ दम्पती जातिस्मृति प्राप्य चारित्राभिलाषिणौ बभूवतुः । निवेश्य खराज्ये पुत्रं पुष्पकलशाख्यं शङ्खकलावत्यौ गुरोः पार्श्वे दीक्षां जगृहतुः। प्रपाल्य चारित्रं चिरं तौ दम्पती
वर्गमवापतुः। ततश्युतौ नृभवं प्राप्य प्राप्तसंयमकेवलज्ञानौ मुक्तिं गमिष्यतः। इति कलावतीकथा समाप्ता॥३१॥ MI पुष्पचूलाकथा अनिकापुत्राचार्यकथायां ज्ञेया ॥ ३२ ॥
पउमावई य गोरी, गंधारी लक्खमणा सुसीमा याजंबुवई सच्चभामा रुपिणि कण्हष्टमहिसीओuruM l शीलादिरुचिरं धर्म, कुर्वाणो मानवोऽनिशम् । सत्यभामेव लभते, साधुवादं पदे पदे॥१॥
तथाहि-द्वारवत्यां कृष्णो राज्यं करोति स्म । अन्यदा नारदो भ्रमन् केलिकुतूहली हरिमन्दिरमभ्यगात् ।। हरिः कतिचित् पदान् सम्मुखं गत्वा मुनि नमाम । तत्र स्थित्वा क्षणं क्रीडालोलःशुद्धान्तमीयिवान् मुनिः। तदा
Jain Education I
n
For Private Personal use only
d
ainelibrary.org