________________
- नेन ।-स्फुरत्तमःक्षपाघाती, राजतेजोऽभिवर्धकः । भाति प्रतापभानुस्ते, राजन् ! विश्वावभासकः ॥ १॥ प्रीतेन
राज्ञा तस्मै नराय बहुदानं दत्त्वा पुत्र्यै राजशुको दत्तः। सुलोचना हृष्टा । तं शुकं गृहीत्वा स्वस्थाने समेत्य स्वर्ण॥ पञ्जरेऽक्षिपत् ।-शर्कराशकलैः शालिदाडिमाफलभक्षणैः । हारहूरादिपानैश्च, प्रमोदात्तमपोषयत् ॥ १॥ तं शुकं । करस्थं हृदयस्थं अंससंस्थं पञ्जरस्थं पाठयन्ती सुलोचना व्यनोदयत् । यतः-भोजने शयने राजस्थाने पाने
वने गृहे । योगीव मानसैकाग्र्यं, नामुञ्चत्तं सुलोचना ॥१॥ अन्येयुर्वने तं शुकं गृहीत्वा सखीयुता गता। तत्र सीमन्धरप्रासादे शुको दृष्ट्वा श्रीवीतरागं चेतस्यचिन्तयत् । 'दृष्टपूर्वमिदं बिम्बमीदृक् क्वापि मया पुरे'ति भाव यन् जातिस्मृति प्राप्य पूर्वभवं शुकः सस्मार । चारित्रं सुगतिप्रदं पूर्वभवे प्राप्तवान् । अध्यैषि सर्वशास्त्राणि,
क्षयोपशमतस्ततः। क्रियां पुनरकाष न, सर्वथा पठनैकधीः॥१॥ वस्त्रपुस्तकपात्रादिमूर्छानूदिततत्त्वधीः । परोलापकारिणीकृत्य, मुधा ज्ञानमहारयम् ॥ २॥ व्रतं विराध्य पर्यन्तमसंसाध्य मुधाव्रतः । विपद्य काननेऽमुष्मिन्नहं 21 राजशुकोऽभवम् ! ॥ ३ ॥ प्राग्भवाभ्यासितविद्यावशात् तिर्यग्भवेऽपि पण्डितोऽभूवम् । तत्कथं ज्ञानदीपेऽहं, करप्राप्तेऽप्यपुण्यवान् । तिर्यग्जन्मोदधौ मग्नः, स्खलच्चरणपद्धतिः ? ॥१॥ अतः परं प्रभु श्रीसीमन्धरं प्रणम्य
Jain Education
For Private
Personal Use Only