________________
वल्ली, पतिता कल्पपादपात् । आरुरोह पुनः पूर्णफला सा तत्र तत्क्षणात् ॥१॥” तं स्वप्नं श्रुत्वा गुरुराह-भवान् कल्पवल्लीमहीरुहः, वल्ली प्रिया ते, साऽसूत पुत्रं, साऽत्र समेष्यति। ततो हृष्टो राजा। पुरमध्ये समागात् ।। जनांस्तां द्रष्टुं प्रैषीत् । दत्तोऽपि भूपप्रेषितो वनाद्वनं भ्रमन् तापसवनमेकमद्राक्षीत् । तत्र गत्वा दत्तः कलावतीसम्बन्धं तापसं पप्रच्छ । प्रोवाच मुनिः-भद्र ! किं तया कार्य तव ?। दत्तोऽवग्-शङ्खभूपस्य प्रिया न लभ्यते।। तेन स भूपः प्रियावियोगान्मरिष्यति । ततो मुनिराह-अस्मिन् वने एका स्त्री सपुत्राऽस्ति । ततो दत्तः कलावती द्रष्टुं निर्ययौ। दूरतो दत्तमालोक्य, जाग्रच्छोका कलावती। रुरोद रोदसीकुक्षिम्भरिपूर्णप्रतिस्वनैः॥१॥ दत्तः प्राह स्वसर्मा त्वं, रोदीः कर्मफलं ह्यदः।अभुक्त्वा प्राग्भवोपात्तं, न मुच्यन्ते जिना अपि ॥ २ ॥ यतः-तद्विवेकिनि! धीरत्वमादाय रथमारुह । खदर्शनसुधावृष्टया, नृपमाश्वासय द्रुतम् ॥३॥ पश्चात्तापपरो भूत्वा, वह्निमहाय सोऽवि
शत् (विशन्नहाय सोऽनलम् )। दिनमद्यतनं कष्टात्, स्थापितोऽस्ति नरेश्वरः॥४॥कुलीना मानमुन्मुच्य, प्रियIN कारुण्यतस्ततः। नत्वा कुलपतिं सद्य, आपप्रच्छ कलावती ॥५॥ ततस्तेनापि दत्ताशीः, प्रहिता हितमिच्छुना।
चचाल सह दत्तेन, साङ्गजा विजयाङ्गजा ॥ ६॥ आकाथ पुरोपान्ते समायातां कलावती राजा हृष्टः पुरप्र-al
Jain Education
anal
For Private & Personel Use Only
LSMainelibrary.org