________________
॥ श्रीमरतेश्वरवृत्ती २ विभागे
॥ ३४३ ॥
दर्शयिष्यामि स्वकीयमाननं । मया मौढ्यांत् प्रिया त्यक्ता । ततः प्रगुणीकृत्य चितामहं काष्ठभक्षण करिष्यामि' ततोऽमात्याः प्रोचुः - स्वामिन् ! एका तावन्मृता देवी केनापि निजकर्मणा । द्वितीयं त्वमात्महत्यां कर्तुमिच्छसि तस्माद्विवेकिन् ! अमुं कदाग्रहं मुञ्च । इत्यादि पौरामात्यानां युक्तियुक्तवचांस्यप्यनादृत्य नृपो वेगान्मृत्यवे काननेऽगमत् । समयज्ञो गजश्रेष्ठी कालक्षेपचिकीः मधुराक्षरमाह स्म श्रीशङ्खधरणीधवम् - भो राजन् ! दिनेशान् जिनेन्द्रानर्चय तवापदो गमिष्यन्ति । ततः प्रथमं जिनं पूजयितुं श्रीजिनप्रासादे गतो राजा । तंत्र जिनं पूजयित्वा ततोऽमिततेजसं मुनिं वन्दितुं गतः । मुनिरिति देशनां ददौ - "जीवाः संसारकान्तारे, पूर्वकर्मवशेरिताः वातप्रम्य इव व्यर्थं भ्राम्यन्ति भ्रान्तिसम्भृताः ॥ १ ॥ सुखं सुखमिति भ्रान्ता, दुःखपृक्ताः पदे पदे ! जीवाः क्लिश्यन्ति संसारे, वातोद्धूतपलाशव (तू) ॥ २ ॥ कल्पद्रुमिव मा हाषद्, भवोद्विनों भवी हहा । न सेवते जिनाधीशं, परत्रेह च शर्मदम् ! ॥ ३ ॥ दुष्प्रापं प्राप्य जन्मेदं भवकोटिषु दुर्लभम् । कर्तव्यो हि तथा धर्मो, यथा स्यान्मुक्तिशर्म च ॥ ४ ॥ मुनेर्वचनमाकर्ण्य, सद्यः सञ्जातनन्दथुः । विशश्राम विशामीशस्तत्रैव खलु तां निशम् ॥ ५ ॥ अथ विभातकल्पायां निशि स्वप्नमालोक्य भूपो गुरोः पुरतः प्राह - "अपक्कैकफला
Jain Education onal
For Private & Personal Use Only
कलावती
कथा ।
॥ ३४३ ॥
jainelibrary.org