SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ || कुलपतिना पृष्टा दुःखकारणं कलावती खवनवाससम्बन्धं प्राह । तापसाधिपतिः प्राह-भद्रे ! मा खियेथाः वृथा। जानाम्यहं लक्षणैस्तव श्रेयांसि पुनर्भविष्यन्ति । एवमाश्वासिता तेन हृष्टा कलावती विजयसेनभूपपुत्री तापसीभिः समं तस्थौ । इतस्ताभ्यां मातङ्गाभ्यां कलावत्याः साङ्गदे भुजे भूपाय दत्ते । राजा तु तयोरङ्गदयो-IN विजयसेनाख्येत्यक्षराणि वीक्ष्य साकुलो दत्तमाहूय पप्रच्छ-को नु देवशालापुरादत्रागात् कल्ये ?। तेनोक्तं-तत्रनात्या राजभृत्या आगता अभूवन् । देव्याः कृते भ्रात्रा अङ्गदवयं प्रेषितं विजयेन । तस्याः पार्थे समस्ति । श्रुत्वै-IAll तद्भूपो वज्राहत इव क्षणं भूत्वा सिंहासनात् पपात मुमूर्छ च । कथश्चिञ्चन्दनादिभिश्चैतन्यं लम्भितो राजा पश्चात्तापपरो वक्षस्ताडयन्निदमूचे । यतः-अहो मे मूढकारित्वमहो मे मन्दभाग्यता। अहो मे निर्विचारित्व-INI || महो मम कुशीलता !॥१॥ किमेतदित्यसौ पृष्टो, विलपन्निति मत्रिभिः । सलजं सानुतापं च, सपूत्कार-II मयोऽवदत् ॥२॥क यामि किमु वा वच्मि, क विशामि करोमि किम् ?। आत्मनैव मयाऽऽत्माऽसौ, हन्त कष्टे निपा-1 शातितः ॥ ३ ॥ अनादृत्य कुलाचारमप्यचिन्त्य निजोचितम् । धर्मच्छेदमनालोच्य, हा किं चक्रे दुरात्मना ? ॥ ४ ॥ लक्ष्मेव चन्द्रलेखायां, दुग्धे पूतरकानिव । हा हा ! दोषमसम्भाव्यं, तस्यां कथमभावयम् ? ॥ ५॥ तत् कस्य | भरते. ५८ Jain Education ine mal For Private & Personel Use Only NEnelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy