________________
॥ श्रीभरते.
कथा।
श्वरवृत्ती २ विभागे
॥३४२॥
मातङ्गयुगलमाकार्य प्रोक्तम्-इयं कलावती वने त्याज्या युवाभ्यां । हस्तयुगं साङ्गदं छित्त्वा युवाभ्यामानेयं मम कलायतीपार्श्वे । ततस्तौ मातङ्गौ कलावती वने निन्यतुः। प्रोचतुश्च तौ-देवि ! न ज्ञायते सम्यक् केन दोषेण राजा त्यांनी त्याजयति ? । तव साङ्गदे भुजे छेत्तुमादेशो दत्तोऽस्ति। राज्ञ आदेशः कृतो विलोक्यते एवं । कलावती जगौVIभो मातडौ! युवयोर्न दूषणं। पत्युश्चापि न दूषणं । मम कर्मण एव दूषणम् । ततस्तौ मातङ्गौ तस्याः कलावत्याःसाङदे
भुजे छेदयामासतुः। तदा कलावत्योक्तं तयोरग्रे-मम कर्मणेदं कृतं, तेन को दोषो भवतोः?। तौ मातङ्गौ भुजे साङ्गदे । लात्वा स्वपुरं प्रति चेलतुः। इतस्तत्र कलावती पुत्रमसूत । कलावती पुत्रं प्राह-तव यदि पितुर्रहे जन्माभविष्यत् । | तदाऽनेकवाद्यनिनादाद्युत्सवः पित्रा करिष्यते स्म । अत्र तु शृगालादिशब्दैरुत्सवो जायमानोऽस्ति । इतस्तत्र नदीपूरो वृक्षादीनुन्मूलयितुमारेभे। परमेष्ठिनमस्कारं स्मृत्वा सा प्राह-पतिव्रताधर्मो यदि मे त्रिशुद्धया पालितोऽभूत् शीलं च पालितं मया सम्यग् भवति तदा मदीयौ भुजौ पुनवौं भवेतां, नदीप्रवाहश्चानुकूलो भवतु। ततः शीलप्रभावेण ॥ ३४२ ॥ तस्या भुजौ पुनर्नवौ जातौ । अत्रान्तरे कश्चित्तापसस्तत्राभ्येत्य प्राह-तवात्र स्थातुं न युक्तं । यतो भवती प्रासूत पुत्रम् । ततः कलावती जगौ-देवगुरुप्रसादात् सर्व वयं समस्ति । ततः सा कुलपतेः पाद्यं गता ।
For Private
in Education Intematon
F
Personal Use Only
inelibrary.org
प