SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ हस्तेन, सांशुकामङ्गदद्वयीम् । भगिन्यै प्रेषयामास, मूर्त स्नेहमिवात्मनः॥२॥ते भृत्यास्तत्र गताः। राज्ञोऽग्रे कथित तैः-कलावतीं प्रेषय पितृगृहे। राज्ञा न मानितम् । ततस्ते कलावत्यै सांशुकामङ्गदद्वयीं कुशलोदन्तकथनपूर्व ददुः। ततस्ते पश्चाद्गताः । बन्धुस्नेहात् करे धृत्वा, तदानीमङ्गदे मुदा । भुजामूले महादेवी, वयस्याभिरनीनहत् ॥ १॥ ततः कलावती वर्षे अङ्गदे भुजामूले बढे दृष्ट्वा प्रमोदमेदुरा सखीभिः सह गवाक्षस्था वार्ता कर्तुं लगा । अहो | प्रेमा प्रस्थिते हि, मयि तस्य चिरायुषः । येनेदमद्भुतं प्रैषि, केयूरद्वयमद्य मे! ॥ १॥ चिरादय मया प्राप्त, वस्तु तत्पाणिसङ्गतम् । शोभते स्म तथा जातं, जन्म मे सफलं स्फुटम् ! ॥ २ ॥ सख्योऽप्यूचुर्महादेवि, तस्य विश्वाभिनन्दिनः । चन्द्रस्येव कुमुदत्यां, त्वयि प्रेमातिरिच्यते ॥ ३ ॥ तदानीमेतज्जल्पमानां कलावती ॥ सखीभ्यां राजा गवाक्षस्याधस्ताद् व्रजन् अशृणोत् । ततः समुत्पन्नातीवकोपो भूपो दध्यौ-एवंविधं कलावत्या, यद्यकृत्यं प्रजायते । तदा विधोः समुत्पन्नाऽङ्गारवृष्टिरसातकृत् ॥१॥ बहिरेव ध्रुवं रक्तां, गुञ्जामिव चलेक्षणाम् ।। घिगिमां कपिवत् कामजाड्यलोलो नरः स्फुटम् ॥ २॥ तदिमां महाऽसतीमङ्गमाल्यमिव त्यजामि । इति गूढं। ध्यायन् भूपः स्वस्थाने समागात् । ज्ञात्वा कलावत्या दुःखागमनं द्रष्टुमशक्नुवानो रविरस्तं गतः । प्रच्छन्नं नृपेण । a Jan Educati on For Private Personal use only how.jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy