SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्ती २ विभागे कथा। धारिणीकथा चन्दनबालाकथायां समस्ति ॥ ३० ॥ धारिणीसच्छीलपालनपरा, जीवाः सद्धर्मकारिणः । धारिणीव श्रयन्यत्र, परत्र च सुखश्रियम् ॥१॥ तथाहि-उज्जयिन्यां चण्डप्रद्योतो भूपः पृथ्वी प्रशशास न्यायाध्वना । तस्य भूपस्य द्वौ सहोदरौ-पालकगोपालको। मिथःप्रीतिभाजौ भवतः स्म । अन्येास्तत्र श्रीधर्मघोषसूरिः समागात् । तत्र धर्म श्रोतुं गोपालकोऽगमत् ।। " संसाराम्बुनिधौ सत्त्वा, ऊर्मिभिः परिघट्टिताः। संयुज्यन्ते वियुज्यन्ते, तत्र कः कस्य बान्धवः॥१॥ऋतुर्व्यतीतः परिवर्तते पुनः, क्षयं प्रयातः पुनरेति चन्द्रमाः । गतं गतं नैव तु सन्निवर्तते, जलं नदीनां च नृणां च । जीवितम् ॥ २ ॥” इत्यादि धर्मोपदेशं श्रुत्वा गोपालकः प्रव्रज्यां ललौ । पालकस्य द्वौ पुत्रौ बभूवतुः । एको|ऽवन्तिवर्द्धनो द्वितीयो राष्ट्रवर्द्धनश्च । द्वावपि धर्मकर्मशास्त्रं पठतः स्म ।-" रूपयौवनसम्पन्ना, विशालकुलN| सम्भवाः । विद्याहीना न शोभन्ते, निर्गन्धा इव किंशुकाः! ॥ १ ॥ विद्वत्त्वं च नृपत्वं च, नैव तुल्यं ॥ ३३८ ॥ कदाचन । स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ! ॥२॥” क्रमाद् द्वावपि पुत्रौ भूपपुत्र्यौ परिणायितौ । अन्येचुरसारसंसारसुखं क्षणभङ्गुरं मत्वा अवन्तिवर्द्धनराष्ट्रवर्द्धनयोर्यथायोग्यं राजपदवीं युवराजपदवीं च वितीर्य । oil o Jain Educati nal For Private & Personel Use Only M ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy