SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Jain Education In यित्वा लात्वा पश्चाद्दलितः । इतस्तद्वीपोत्पन्नजिनपार्श्वे जम्बूद्वीपसत्कं कृष्णमागतं श्रुत्वा तत्रत्यो वासुदेवः समुद्रोपकण्ठे समागात् । द्वाभ्यां कृष्णाभ्यां शङ्खः पूरितः । शब्दौ मीलितौ । सागरमुत्तीर्य गङ्गातटे सर्वे समीयुः । पूर्वं पाण्डवा नावा नदीमुत्तीर्य कृष्णस्य बलं विलोक्यते इतिकृत्वा तैः नौर्न प्रेषिता । कृष्णो भुजाभ्यां नदीमुत्तीर्य पाण्डवपार्श्व प्राप । ततः कृष्णेन रुष्टेन राज्यमुद्दाल्य जगृहे । दक्षिणमथुरा दत्ता कुन्तीवचसा । द्रौपदी हृष्टा । ततः खगृहे समागता सती पुण्यं चकार । कृष्णो द्वारिकायां गतः । एकदा श्रीनेमिनाथस्तत्र समवासार्षीत् । तत्र कुन्ती पञ्चभिः पुत्रैस्तत्पत्नीभिः सह नेमिं नन्तुं गता । श्रीनेमिनाथेन धर्मोपदेशो ददे । तथाहि - " माणुसखित्तजाई, कुलरूवारुग्गमाउयं बुद्धी । सवणुग्गह सद्धा संजमो य लोगंमि दुलहाई ॥ १ ॥” इत्यादिधर्मं श्रुत्वा कुन्ती - द्रौपद्यौ पञ्चापि पाण्डवाः सम्यक्त्वमूलां द्वादशव्रतीं जगृहुः । क्रमात् पञ्चापि पाण्डवाः स्वं पुत्रं राज्येऽभिषिच्य कुन्ती द्रौपदीयुताः श्रीगुरुपार्श्वे दीक्षां ललुः । ततो द्रौपदी नानाविधं तपः कुरुते । अन्येद्युः श्रीशत्रुञ्जये | द्रौपदी साध्वी समागात् । तत्रापि बहुतपः कुर्वाणा क्रमादायुषः क्षये पञ्चमे खर्गे जगाम द्रौपदी । ततश्युत्वा क्रमात् स्तोकभवमध्ये द्रौपदी महासती मुक्तिं यास्यति । इति द्रौपदीमहासती कथा समाप्ता ॥ २९ ॥ For Private & Personal Use Only elibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy