________________
ततो बहुभिर्जनैस्तदा जिनधर्मः प्रपेदे। ततो द्रौपदी पञ्चभिः पाण्डवैः वारकेण स्वस्खदिने भोक्तव्या, यस्मिन् दिने यस्य वारकः तस्मिन् दिनेऽन्येन नागन्तव्यम् । अन्येद्यौपदी यावदन्तःपुरे स्थिता खात्मप्रमाणमादर्श विलोकयति तावदितो नारदस्तत्रागात्। तदा द्रौपदी खवपुः पुनः पुनर्विलोकयन्ती मनसाऽपि न सम्भावयामास । ततो नारदो रुष्टः।। तत उत्थाय धातकीखण्डमध्यस्थापरकङ्कापुर्यां ययौ । तत्र पद्मोत्तरो राजा राज्यं कुरुते स्म । तस्याग्रे यावन्नारदो गतः तावत् पद्मोत्तरो राजा जगौ। क क गतस्त्वं ? । कुतोऽत्रागाः । नारदोऽवग्-हस्तिनागपुरेऽहं गतः। तत्र पञ्चानां पाण्डवानामन्तःपुरे यादृशी द्रौपदी अस्ति तादृशी तवान्तःपुरे नास्त्येकाऽपि पत्नी। ततः स पद्मोत्तरो राजा तामङ्गीकर्तुकाम एकं देवमाराध्य द्रौपदीं खपार्श्वे आनिनाय । ततः पद्मोत्तरो राजा जगौ-भो द्रौपदि ! त्वं मया सह भोगान् भुंक्ष्व । इदं राज्यं तव वर्तते । पट्टकूलादि त्वं गृहाण । सर्वासां पत्नीनां त्वं मुख्या भव । त्वां पृष्दैवाहं सर्व कार्य करिष्यामि । तदा बहुभिः प्रकारैस्तस्याः शीलं खण्डितुमुपक्रमः कृतो.
राज्ञा । तस्या द्रौपद्या मनागपि न मनो विकारं गतम् । द्रौपदी पञ्चपरमेष्ठिनमस्कारं कुर्वाणा षष्ठाष्टमादितपःमरते. ५७
INपरा बभूव । इतः पञ्चापि पाण्डवाः कृष्णपार्श्वे गत्वा द्रौपदीगमनवृत्तान्तं प्रोचुः । कृष्णोऽवग्-साम्प्रतं न
For Private Personal Use Only
in Education
Mainelibrary.org