________________
॥ श्रीभरतेश्वरवृत्ती २ विभागे
॥ ३३६ ॥
Jain Education
सप्ताष्टौ दिनानि । एकदा यावत्सुकुमारिका आतापनां ला लग्ना तावदकस्मादेका वेश्या तत्रागता । सा कीदृशी अस्ति ? । एकस्य नरस्योत्सङ्गे सुप्तां नारीं वेश्यां सुकुमारिका ददर्श । द्वितीयो नरस्तस्या मस्तके पुष्पावतंसं बध्नाति । तृतीयो नरस्तालवृन्तेन वातप्रक्षेपं करोति । चतुर्थो नरस्तस्या मस्तकस्योपरि छत्रं धत्ते । पञ्चमस्तस्या अङ्गे विश्रामणां | कुरुते स्म । एवंविधां गणिकां दृष्ट्वा सुकुमारिका दध्यौ - असौ नारी धन्या । यस्याः पञ्च नरा एवंविधां शुश्रूषां कुर्वन्ति ।
अहं तु पुनः पुनः पुरुषेण त्यक्ताऽस्मिन् भवे । ततः सुकुमारिका एवं निदानं चकार-यद्याचीर्णस्य चेदस्य, तपसोऽ| स्ति फलं मम । तदानीं देवदत्तेव भवेयं पञ्चभर्तृका ॥ १ ॥ साध्वीभिः सा तथा तपस्यन्ती निदानं कुर्वती यदा न निवृत्ता तदा सुकुमारिका पृथगुपाश्रये स्थापिता । क्रमात् संलेखनामष्टौ मासान् कृत्वा नवपल्योपमस्थितिका सुरी सौधर्मे बभूव । ततश्युत्वा सा सुरी अस्मिन् काम्पील्यपुरपत्तने द्रुपदभूपतेः पुत्री द्रौपदी पञ्चानां पाण्डवानां कण्ठे वरमालां चिक्षेप | निदानकर्मत एवमस्याः कर्मोदयः समागात् । कर्मणः पुरतः कोऽपि न छुटति । यतः - " किं करोति नरः प्राज्ञः, प्रेर्यमाणः स्वकर्मभिः ? । प्रायेण हि मनुष्याणां, बुद्धिः कर्मानुसारिणी ॥ १ ॥ यदुपात्तमन्यजन्मनि शुभमशुभं वा स्वकर्म परिणत्या । तच्छक्यमन्यथा नैव कर्तुं देवासुरैरपि हि ॥ २ ॥
For Private & Personal Use Only
द्रौपदीकथा ।
॥ ३३६ ॥
www.jainelibrary.org